सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७०
[कृदन्त
सिध्दान्तकौमुदीसहिता


यातेर्यङन्ताद्वरच् स्यात् । “अतो लोपः' (सू २३८०) तस्य 'अच परस्मिन्–' (सू ५०) इति स्थानिवद्भावे प्राप्त न पदान्त इति सूत्रेण यलोपं प्रति स्थानिवद्भावनिषेधात् “लोपो व्योः-' (सू ८७३) इति यकारलोप । अलोपस्य स्थानिवत्वमाश्रित्य आतो लोपे प्राप्त *वरे लुप्त न स्थानिवत् यायावरः ।

३१५७ । भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः किप् । (३-२-१७७)

[वश्राद् । भा:-भासा । धूः-धुरौ । विद्युत् । ऊर्क । पूः-पुरौ दृशिग्रहणस्याप्यपकर्षाज्जवतेदीर्घः । जूः-जुवौ-जुवः । प्रावशब्दस्य धातुना समासः सूत्रे निपात्यते । ततः किप् । ग्रावस्तुत्


यः इति षष्ठयन्तम् । तदाह । यातेरिति ॥ याधातोर्यड्, द्वित्वादि “दीघेऽकितः' इत्य भ्यासस्य दीर्घः, यायाय इति यडन्ताद्वराचि विशेषमाह । अतो लोप इति ॥ हल परत्वाभावात् ‘यस्य हलः’ इति यकारलापो न । यायाय् वर इति स्थिते आह । लोपो व्योरिति यकारलोप इति । ननु अतो लोपस्य “ अचः परस्मिन्' इति स्थानिवत्वात् अकारेण व्यवधानात् वल्परत्वाभावात् कथामह यलाप इत्यत आह । तस्याति ॥ तस्य अहलापस्य यलेोपे कर्तव्ये “न पदान्त' इति स्थानिवत्वनिषेधादित्यर्थः । एवञ्च यडोऽकारस्य यकारस्य च लोपे यायावर इत्यत्र “ आतेो लोप इटेि च ' इत्यालोपमाशङ्कय निराकरोति । अलुोप स्येति ॥ यडकारलोपस्य “ अचः परस्मिन्’ इति स्थानिवत्वमाश्रित्य तदकारात्मकार्धधातुक परत्वात् आकारस्य 'आतो लोप इटि च' इत्याछेोपे प्राप्त सति परिहार उच्यते इत्यर्थः । परिहारमेवाह । वरे लुप्तन्न स्थानिवदिति ॥ लुप्तमिति भावे क्तः । ‘न पदान्त' इति सूत्रे वरे इत्यनेन वरे परे विहितन्न स्थानिवदिति लभ्यते । अछोपेोऽयमार्धधातुके परे विहितः । अतः तस्य स्थानिवत्वाभावान्न यडोऽकारमाश्रित्य “ आतो लोप इटि च' इत्यस्य प्रवृत्तिरित्यर्थः । एवञ्च न पदान्त' इति सूत्रे वरे इत्यशस्य यलोपे इत्यशस्य च यायावर इत्युदाहरणामिति बोध्यम् । भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः ॥ भ्राज, भास, धुर्वी, द्युत, ऊर्जि, पृ, जु, ग्रावस्तु , एभ्योऽष्टभ्यः किंप्स्यात् तच्छीलादिषु कर्तृष्वित्यर्थः । विभ्राडिति ॥ 'ब्रश्च' इति षः । भा इति ॥ भासेः किपि सकारान्तस्य रुत्वविसगै । धूरिति ॥ धुर्वीधातोः किप् । रालोप' इति वकारस्य लोपः । धुर् इति रेफान्तम् । सुलोप. । 'वरुपधायाः’ इति दीर्घः । पूरिति ॥ पृधातोः किप् । 'उदोछय' इत्युत्त्वम्, रपरत्वम् । पुर् इति रेफान्तम्, सुलोपे 'वः’ इति दीर्घः । जुधातोः किपि दीर्घ साधयितुमाह । दृशिग्रहणस्याप्यपकर्षादिति ॥ उत्तरसूत्रादिति भावः । अत्र व्याख्यानमेव शरणम् । ननु ग्रावस्तु इति कथ समस्तनिर्देशः । सुबन्तस्य प्रावशब्दस्य धातुना समासासम्भवादित्यत आह । श्रावशब्दस्येति ॥