पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५६९
बालमनोरमा ।


सस्रिः । जग्मिः । जज्ञिः । नेमिः । “सासहेिवावहिचाचलिपापतीनामुप सङ्क-यानम्' (वा २१४४) । यङन्तेभ्यः सहत्यादिभ्यः किकिनौ पतेनग भावश्च निपात्यते ।

३१५२ । स्वपितृषोर्नजिङ् । (३-२-१७२)

स्वप्रक् । तृष्णक्, तृष्णजौ, तृष्णजः । “धृषेश्चेति वाच्यम्' इति काशिकादौ । धृष्णक् ।

३१५३ । शूवन्द्योरारुः । (३-२-१७६)

३१५४ । भियः कुक्लुकनैौ । (३-२-१७४)

भीरुः । भीलुकः । 'कुकन्नपि वाच्यः' (वा २१४५) । भीरुकः ।

३१५ । स्थेशभासपिसकसो वरच् । (३-२-१७५)

स्थावरः । ईश्वरः । भास्वरः । पेस्खरः । कस्वरः ।

३१५६ । यश्च यङः । (३-२-१७६)


इहापन्यस्तम् । भाषायामिति ॥ वार्तिकमिदम् । धाञ्, कृ, स्ट, गमि, जनि, नाम एभ्यष्षड्भ्यः किकिनौ, तौ च लिड़दिति वक्तव्यमित्यर्थः । दधिरित्यादि । किकिनो कृतयोः द्वित्वादि यथासम्भवं ज्ञेयम् । नेमिरिति ॥ नमेः किः । द्वित्वम्, एत्वाभ्यासलापौ । सासहीति ॥ सहेयैङि द्वित्वादौ “दीघाऽकितः' इति दीर्घ, किकिनोः कृतयो 'यस्य हलः' इति यकारलापे अतो लोपे सासहीति निर्देशः । एव वहेः चलेः पतेश्च यडन्तस्य किकिनन्तस्य निर्देशः । एषान्निपातनस्य उपसङ्खयानमित्यर्थः । तदाह । यङन्तेभ्यस्सहत्या दिभ्य इति ॥ नीगभाव इति ॥ “नीग्वञ्चु' इति प्राप्तस्य नीगागमस्याभाव इत्यर्थः । स्वपितृषोर्नजिङ् ॥ पञ्चम्यर्थे षष्ठी । खपेः तृषेश्च, नाजिड् स्यात् तच्छीलादिष्वित्यर्थः । जकारादिकार उच्चारणार्थः । डकार इत् । स्वप्नगिति ॥ खपनशील इत्यर्थः । स्वप्रजौ स्वप्रजः । एव तृष्णक्, तर्षणशील इत्यर्थः । धृषेश्चेति ॥ नाजडिति शेषः । काशिकादा विति ॥ भाष्ये तु न दृश्यते इति भावः । शृवन्द्योरारुः ॥ पञ्चम्यर्थे षष्ठी । ‘शू हिंसायाम् वदि अभिवादनतुल्यो.' आभ्याम् आरुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः । भियः ॥ भीधातोः कु क्लुकन् एतौ स्तः । तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः । स्थेश ॥ ‘छा गतिनिवृत्तौ, ईश ऐश्वर्ये, भासृ दीप्तौ, पिसृ पेसृ गतौ, कस गतौ' एभ्यः वरच् स्यात्तच्छीलादिष्वित्यर्थः । ईश्वरीति तु पुंयोगे डीष् । यश्च यङः ॥ 'या प्रापणे' इत्यस्य धातोरनुकरणस्य या इत्यस्य