पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६८
[कृदन्त
सिध्दान्तकौमुदीसहिता

नम्रः । कम्प्रः । स्मेर: । जसिर्नञ्पूर्वः क्रियासातत्ये वर्तते । अजस्रम् सन्ततमित्यर्थः । कम्रः । हिंस्रः । दीप्रः ।

३१४८ । सनाशंसभिक्ष उः । (३-२-१६८)

चिकीर्षेः । आशंसुः । भिक्षु

३१४९ । विन्दुरिच्छुः । (३-२-१६९)

वेत्तेर्नुम् इषेश्छत्वं च निपात्यते । वेत्ति तच्छीलो विन्दुः । इच्छति इच्छुः ।

३१५० । क्याच्छन्दसि । (३-२-१७०)

'देवाञ्जिगाति सुन्नयु ।

३१५१ । आदृगमहनजनः किकिनौ लिट् च । (३-२-१७१)

आद्न्तादृदन्ताद्रमादिभ्यश्च किकिनौ स्तश्छन्दसि तौ च लिङ्कत् । पपिः सोमम् । दृदिर्गाः । बभ्रिर्वज्रम् । जग्मिर्युवा । “जन्निवृत्रममित्रियम् ' जज्ञिः । “भाषायां धाञ्कृस्मृगमिजनिमिभ्य:’ (वा २१४४) दधिः । चक्रिः ।


जासिर्नञ्पूर्व इति ॥ 'जसु मोक्षणे' अयन्नञ्पूर्वशक्तिम्वभावात् क्रियासातये वर्तते इत्यर्थः । निपातनाद्धातुना नञ्जः समासे “नलोपेो नञ्ज’ इति नलोपः । सनाशंस ॥ सन्, आशस, भिक्ष, एषान्त्रयाणान्द्वन्द्वात्पञ्चम्येकवचनम् । सनिति सन्प्रत्ययान्तं गृह्यतेत । “षणु दाने, षण सम्भत्तौ इत्यनयोस्तु न ग्रहणम् । गर्गादिषु विजिगीषुझाब्दपाठालिङ्गात् । एभ्यः उप्रत्ययः स्यात् तच्छीलादिष्वित्यर्थ । आशंसुरिति ॥ ‘आडः शासु इच्छायाम्’ इत्यस्मादुः । विन्दुरिच्छु ॥ वेत्तरिति ॥ 'विद ज्ञान' इत्यस्मादुप्रत्यये प्रकृतेर्नुमागमः । “ इषु इच्छायाम्' इत्यस्मादुप्रत्यय षकारस्य छत्वञ्च निपात्यत इत्यथे । वेत्तीति ॥ धातुप्रदर्शनम् । तच्छील इनि ॥ वेदन शील इत्यर्थः । इच्छतात ॥ 'इषु ३च्छायाम्' इति धातुप्रदर्शनम् । इच्छुरिति ॥ एषणशील इत्यर्थः । क्याच्छन्दसि ॥ क्यप्रत्ययान्तादुप्रत्ययः स्यात् तच्छीलादिषु छन्दसीत्यर्थः। सुन्नयुरिति ॥ सुन्द्रं सुखम् । तदात्मन इच्छतीत्यर्थे सुन्नशब्दात् क्यञ्च । *न च्छन्दस्य पुत्रस्य’ इति निषेधात् 'क्यचि च' इति ईत्वम्,‘अकृत्सार्व' इति दीर्घश्च न । सुन्नयुरिति क्यजन्ता दुप्रत्ययः, आतेो लोप । अादृगम ॥ आत्, ऋ, गम, हर, जन, एषान्द्वन्द्वात्पञ्चमी। लिटचेति व्याचष्ट । तौ च लिङ्कदिति ॥ किं किन् अनयोर्द्धन्द्वः । तच्छीलादिष्वित्येव । पपिरिति ॥ पाधातोः किः, द्वित्वादि, आछेोपः । ददिरिति ॥ दाधातोः किः, द्वित्वादि । बत्रिर्वज्र मिति ॥ भृल. कि, द्वित्वादि । जििरति ॥ हनः किः, द्वित्वादि । ‘गमहन' इत्युपधालाप । ‘हो हन्तेः’ इति कुत्वम् । जैज्ञिरिति ॥ जनेः कः, द्वित्वादि । एवं किन्यपि बोध्यम् । स्वरे विशेष । छान्दसमप्येतत्सूत्रद्वयम्भाषायामित्यादिवक्ष्यमाणवार्तिकविवेचनाय.