पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५६७
बालमनोरमा ।

३१४२ ॥ विदिभिदिच्छिदेः कुरच् । (३-२-६२)

विदुरः । भिदुरम् । छिदुरम् ।

३१४३ । इण्नशिजिसर्तिभ्यः करप् । (३-२-१६३)

इत्वरः । इत्वरी । नश्वरः । जित्वरः । स्मृत्वरः ।

३१४४ । गत्वरश्च । (३-२-१६४)

गमेरनुनासिकलोपोऽपि निपात्यते । गत्वरी ।

३१४५ । जागुरूकः । (३-२-१६५)

३१४६ । यजजपद्दशां यङः । (३-२-१६६)

एभ्यो यङन्तेभ्य ऊकः स्यात् । दशामिति भाविना नलोपेन निर्देशः । यायजूकः । जञ्जपूकः । दन्द२कः ।

३१४७ । नमिकम्पिस्म्यजसकमहिंसदीपो रः । (३-२-१६७)


पञ्चमी । एभ्यः घुरच् स्यात् तच्छीलादिष्वित्यर्थः । घचावितौ । भंगुर इति ॥ “चजो. इति कुत्वम् । विदिभिदि ॥ तच्छीलादिष्वित्येव । विदेज्ञानार्थस्यैव प्रहणम्, नतु लाभा र्थस्य, व्याख्यानादित्याहुः । विदुर इत्यादौ कित्त्वान्न लघूपधगुणः । इण्नशिजि ॥ इण्, नशि जि, सृ, एभ्यः करप् स्यात् तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः । पित्वन्तु तुगर्थम् । गत्वरश्च ॥ गमेरिति ॥ गमेः करप् अनुनासिकलोपश्च निपात्यते इत्यर्थः । झलादिप्रत्यय परकत्वाभावादनुनासिकलोपस्याप्राप्तिः । पित्वातुक् । गत्वरीति ॥ 'टिड्ढ’ इति ङीप् । जागुरूकः ॥ जागृ इत्यस्य जागुरिति पञ्चम्यन्तम्पदम् । तदाह । जागर्तेरिति ॥ तच्छीलादिष्वित्येव । जागरूक इति ॥ ऋकारस्य गुणः, रपरत्वं । सिद्धरूपन्तु न निपातितम्, उत्तरसूत्रे ऊक इत्यननुवृत्तिप्रसङ्गात् । यजजपद्दशां यङः ॥ यज, जप, दश, एषा त्रयाणा द्वन्द्व । पञ्चम्यर्थे षष्ठी । तदाह । एभ्य इति ॥ तच्छीलादि ष्वित्येव । ननु दंशेनोपधत्वात् कथन्दशामिति निर्देश इत्यत आह । भाविनेति ॥ ऊकं कृते सति भविष्यतो नलोपस्यात्र निपातनमिति यावत् । यायजूक इति ॥ 'यस्य हलः’ इति यलोपः । “अतो लोपः, दीर्घःऽाकतः’ इत्यभ्यासस्य दीर्घः । जञ्जपूक इति ॥ जपजभदहदशभञ्जपशां च' इत्यभ्यासस्य नुक् । एवन्दन्दशूकः । निपातनान्नकारलापः । नमिवकम्पि ॥ नमि, कम्पि, स्मि, अजस, कम, हिंस, दीप्, एषान्द्वन्द्वात्पञ्चम्येकवचनम् । एभ्यस्सप्तभ्यो रप्रत्ययः स्यात् तच्छीलादिष्वित्यर्थः । अजसधातोः धातुपाठे अदर्शनातू आह ।