पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६४
[कृदन्त
सिध्दान्तकौमुदीसहिता

३१२८ । चलनशब्दार्थाद्कर्मकाद्युच् । (३-२-१४८)

चलनार्थाच्छब्दार्थाच युच् स्यात् । चलनः । चोपनः । कम्पनः । शब्दनः । रवणः । 'अकर्मकात्' किम् । पठिता विद्याम् ।

३१२९ । अनुदात्तेतश्च हलादेः । (३-२-१४९)

अकर्मकाद्युच्स्यात् । वर्तन । वर्धनः । “अनुदात्तेतः' किम् । भविता । 'हलादेः' किम् । एधिता । “अकर्मकात्’ किम् । वसिता वस्रम् ।

३१३० । जुचङ्क्रम्यद्दुन्द्रम्यस्मृगृधिज्वलशुचलषपतपद्ः ।(३-२-१५०)

जु' इति सौत्रो धातुर्गतौ वेगे च । जबनः । चङ्क्रमणः । दन्द्रमणः । सरण: । पूर्वेण सिद्धे पद्ग्रहणं “लषपतपद्–' (सू ३१३४) इत्युकब्जा बाधा मा भूदिति । तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति ।

३१३१ । कुधमण्डार्थेभ्यश्च । (३-२-१५१)

मण्डनः । भूषण


स्यादित्यर्थः । चलन ॥ शब्दन इति ॥ ‘शब्द शब्दन' चुरादिः । शब्दनं शब्दोच्चारणम् । धात्वर्थोपसङ्कहादकर्मकः । अनुदात्तेतश्च ॥ आदिग्रहणाभावे हलन्तादित्यर्थः स्यात् । ततश्च जुगुप्सनः इति न स्यात् । सन्नन्तस्य हलन्तत्वाभावात् । अस्ति चानुदात्तेत्त्व सन्नन्तस्य । गुप इत्यनुदात्तत्त्वस्य कवल प्रयाजनाभावन सन्नन्ताथत्वात् । जुनुचक्रम्य दन्द्रम्य । जु, चङ्कम्य, दन्द्रम्य, सूट, गृधि, ज्वल, शुच, लष, पत, पद् एषान्दशानां द्वन्द्रात्पञ्चमी । एभ्यः तच्छीलादिषु युच् स्यादित्यर्थः । धातुपाठे जुधातोरदर्शनादाह। जु इति सौत्र इति ॥ चङ्क्रमण इति । यडन्ताद्युच् । ‘यस्य हलः’ इति यकारलोप, अतो लापः ! एनन्दन्द्रमणः, सरणः, गद्धन', ज्वलन', शान्चनः, लषण', पतनः, पदनः, इत्यप्युदा हार्यम् । पूर्वेणेति ॥ ' अनुदानेतश्च हलादे.’ इत्यननेत्यर्थः । तेनेनि ॥ उकञ्ह्ययं तच्छीलाधि कारस्थ । तत्र वासरूपविधिनैव उकब्जा ‘अनुदात्ततश्च हलादे 'इति विहितस्य पदर्युचः बाधो न भविष्यतीति ‘जुचङ्कम्य' इति युज्विधिरनर्थक' स्यात्। अतस्ताच्छीलकेषु परस्परं वासरूपविधि नास्ति इति विज्ञायत इत्यर्थः । ‘निन्दहिंस’ इति सूत्रे तच्छीलादिषु वासरूपविधिना तृजादयो नेति ज्ञापितम् । इह तु ताच्छीलिकषु परस्परं वासरूपविधिनस्तीति ज्ञाप्यते इति न पौनरुक्तयम् । तृति ॥ अलम्पूर्वोत् कृञ्जः अलकृत्रिल्यादिसूत्रविहितेन तच्छीलाधिकारस्थेन इष्णुचा ‘तृन्’ इति सामान्यविहितः तच्छीलाधिकारस्थो बाध्यते इत्यर्थः । कुधमण्डार्थेभ्यश्च ॥ ‘कुध