पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५६५
बालमनोरमा ।


३१३२ । न यः । (३-२-१५२)

यकारान्ताद्युज्न स्यान् । क्नूयिता । क्ष्मायिता ।

३१३३ । सूद्दीपदीक्षश्च । (३-२-१५३)

युञ्जन स्यात् । सूदिता । दीपिता । दीक्षिता । *नमिकम्पि-' (सू ३१४७) इति रेण युचो बाधे सिद्धे दीपेग्रहणं ज्ञापयति “ताच्छीलिकेषु वास रूपविधिनस्ति' इति प्रायिकमिति । तेन कम्रा कमना युवतिः । कम्प्रा कम्पना शाखा । यदि सूर्युज्न, कथं मधुसूदनः । नन्द्यादिः ।

३१३४ । लषपतपद्स्थाभूवृषहनकमगमशूभ्य उकम्।(३-२-१५४)

लाषुकः । पातुकः इत्यादि ।

३१३५ । जल्पभिक्षकुट्टलुण्टवृङः षाकन् । (३-२-१५५)

जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाक । वराकः । वराकी ।

३१३६ । प्रजेोरिनिः । (३-२-१५६)


केोपे’ “मडि भूषायाम्' एतदर्थेभ्यः धातुभ्यो युच स्यात् तच्छीलादिष्वित्यर्थः । न यः ॥ य इति पञ्चम्यन्त धातुविशेषणम् । तदन्तविधिः । तदाह । यकारान्तादिति ॥ क्नूयिता । क्ष्मायितेति ॥ ‘क्नूयी शब्दे उन्दने च' ‘क्ष्मायी विधूनने’ ‘अनुदात्ततश्च हलादेः' इति युच् निषिध्यते । तृनेव भवति । सूदीप ॥ सूद, दीप, दीक्ष , एषान्द्वन्द्वात्पञ्चमी । युज्नेति ॥ शेषपूरणमिदम् । ‘अनुदात्ततश्च' इति प्राप्ती युच् प्रतिपिध्यते । नान्विह दीपग्रहण व्यर्थम् । नामिकम्पिस्म्यजसकमहिंसदीपो रः' इति विशेषविहितेन रप्रत्ययेन युचो बाधसिद्धे । नच वासरूपविधिना तद्वाध' शङ्कय । ताच्छीलिकेषु वासरूपविधेः प्रतिषेधादित्यत आह । नमिवकपीति रेणेति । रप्रत्ययेनत्यर्थः । प्रायिकामनि । तथा चात्र वासरूपविधिना ताच्छीलिकेनापि रप्रत्ययेन युचा बाधासम्भवात् इह दीपेर्युचे निषेधेऽर्थवानिति भावः । तेनेति । ताच्छीलिकेऽपि कचिद्वासरूपविधस्सत्त्वादित्यर्थः । कम्रा कमनेति ॥ इच्छा शीलेत्यर्थः । ‘अनुदात्ततश्च' इति युच ‘नमिकम्पि’ इति रेण पक्षे बाध इति भावः । कम्प्रा, कम्प नेति ॥ चलनशीलेत्यर्थः । अत्र पि ‘नमिकम्पि' इति रेण युच पक्षे बाध इति भाव । आक्षिपति । यदीनि ॥ ‘सूदीपदीक्षश्च' इति सूदर्युच्प्रतिषिध्यते तदा मधुसूदन इति कथमित्यन्वयः । समाधते । नन्द्यादिरिति ॥ सूदिरिति शेष. । तथाचव ‘नन्दिग्राह' इति ल्युप्रत्यय इति भावः । लषपत ॥ एभ्यो दशभ्यः उकञ् स्यात् तच्छीलादिष्वर्थेषु । इत्यादीति ॥ पादुकः । आतेो युक्, स्थायुकः । भावुकः, वर्षक, घातुक’ ‘हनस्तः' इति तत्वम् । हो हन्ते’ इति कुत्वम् । कामुकः, गामुकः, शारुकः । जल्पभिक्ष । एभ्यः पञ्चभ्यध्षाकन् स्यात् । तच्छीला दिष्वित्यर्थः । षनावितौ । स्त्रियां षित्वान्डीष् । जल्पाकः, इत्यादि । प्रजोरिनिः ॥