पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५६३
बालमनोरमा ।


विकाषी । विलासी । विकत्थी । विस्रम्भी ।

३१२४ । अपे च लषः । (३-२-१४४)

चाद्वैौ । अपलाषी । विलाषी ।

३१२५ । प्रे लपसृदुमथवद्वसः । (३-२-१४५)

प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रवादी । प्रवासी ।

३१२६ । निन्दुहिंसशिखादविनाशपरिक्षिपपरिटपरिवादिव्याभाषासूयो वुञ् । (३-२-१४६)

पञ्चम्यर्थे प्रथमा । एभ्यो बुञ्स्यात् । निन्दकः । हिंसकः, इत्यादि । ण्वुला सिद्धे बुञ्वचनं ज्ञापकं तच्छीलादिषु वासरूपन्यायेन तृजाद्यो नेति ।

३१२७ । देविकुशोश्चोपसर्गे । (३-२-१४७)

आदेवकः । आक्रोशकः । “उपसर्गे' किम् । देवयिता । क्रोष्टा ।


कत्थ, स्रम्, एषान्द्वन्द्वात्पञ्चमी । एभ्यो घिनुणु स्यात् ताच्छील्यादिष्वित्यर्थ । अपे च लषः ॥ चाद्वाविति ॥ वैौ उपपदेऽपीत्यर्थ । अपेप वौ च उपपदे लषः घिनुण् इत्यर्थ । ताच्छील्यादिष्वेवेत्यर्थः । प्रे लप ॥ लप, ऋ, दु, मथ, वद्, वस्, एषां षण्णान्द्वन्द्वात्पञ्चमी । प्रे उपपद एभ्य' घनुण स्यात् ताच्छाल्यादाष्वत्यथ नन्दहिंस ॥ निन्द, हिंस, क्रुिश खाद, विनाश, परिक्षिप, परिट, परिवादि, व्याभाष, असूय, एषां दशानां द्वन्द्व. । पञ्चम्यर्थे प्रथमेति ॥ सौत्र पुस्त्वमेकवचन वेति भावः । विनाशेति विपूर्वस्य नशण्र्यन्तस्य भाविना णिलोपेन निर्देशः । शकारादकार उच्चारणार्थः । केचित्तु विनाशीति ण्यन्तमेव पठन्ति । परिवादीति तु ण्यन्तमेव । असूयेति कण्डादियगन्त । इत्यादात ॥ , खादकः हकुशकः विनाशकः, परिक्षेपकः, परिराटक, परिवादकः, व्याभाषकः, असूयक । ननु ‘असूयो वुञ्’ इति असूयतेरेव बुञ्विधीयता, न तु निन्दादिभ्योऽपि, तेषां ण्वुलैव सिद्धेः । लित्स्वराजित्स्वरयोस्तु नास्ति विशेषः । उभयथाप्युदात्तत्वात् । असूयतेस्तु ण्वुलि प्रत्ययात् पूर्वं ऊकार उदात्तः । वुञ् ितु नित्यादिर्नित्यम्’ इति धातोरकार उदात्त इति विशेष. । तस्मादसूयतेरेव वुञ्विधिरिति युक्त मित्यत आह । ण्वुला सिद्धे इति ॥ तृजादयो नेतीति ॥ तच्छीलादिषु वासरूपविधिः सत्वे हि तद्विषये ण्वुलस्सरूपतया वुञ्जा नित्यम्बाधेऽपि तृजादयः स्यु । अत्र वासरूप विध्यप्रवृत्तौ तु ‘तृन्’ इति सूत्रेण तच्छीलादिषु तृनि प्राप्त बुञ्विधिरथैवान् । अतस्तच्छीलादिषु वासरूपविधिर्न प्रवर्तत इति भाव । इद च प्रायिकम् । तत्फलन्तु उत्पूर्वान्मदेरलकृञ्जआदि सूत्रेण इष्णुजुक्तः, वासरूपविधिना घिनुणपीति मूल एवानुपदमुक्तम् । देविकुशोः ॥ देवीति चुरादिण्यन्तस्य ‘दिवु क्रीडा’ इत्यस्य च ग्रहणम् । उपसर्गे उपपदे देवयतेः कुशेश्च तच्छीलादिषु वुञ्