पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६२
[कृदन्त
सिध्दान्तकौमुदीसहिता


न चैवं शमी शामिनावित्यादौ नुम्प्रसङ्गः । झल्प्रहणमपकृष्य झलन्तानामेव तद्विधानात् । “नोदात्तोपदेशस्य-' (सू २७६३) इति वृद्धिनिषेधः । शमी । तमी । दमी । श्रमी । भ्रमी । क्ष्मी । कुमी । प्रमादी । उत्पूर्वान्मदे अलङ्कवादिसूत्रेणेष्णुजुक्तः, वासरूपविधिना घिनुणपि। उन्मादी। ताच्छीलिकेषु वासरूपविधिनस्ति' इति तु प्रायिकम् ।

३१२२ । सम्पृचानुरुधाङन्यमाड-यसपरिस्सृसंसृजपरिदेविसञ्ज्वरपरिक्षिपपरिटपरिवद्परिदृहपरिमुहृदुषद्विषदुहदुहयुजाक्रीडविविचत्यजरजभजातिच्चरापचरामुषाभ्याह्नश्च

(३-२-१४२)

घिनुण्स्यात् । सम्पक । अनुरोधी । आयामी । आयासी । परिसारी । संसर्ग । परिदेवी । संज्वारी । परिक्षेपी । परिराटी । परिवादी । परिदाही । परिमोही । दोषी । द्वेषी । द्रोही । दोही । योगी । आक्रीडी । विवेकी । त्यागी । रागी । भार्गी । अतिचारी । अपचारी । आमोषी । अभ्याघाती ।

३१२३ । वा कषलसकत्थस्रम्भः । (३-२-१४३)


नच हस्वाभावे “तसिलादिषु' इति पुवत्व शङ्कयम् । “सज्ञापूरण्योश्च' इति निषेधात् । ननु भाष्यरीत्या उगित्वाभ्युपगमे शमी-शमिनौ इत्यादौ 'उगिदचाम्' इति नुम् स्यादित्याशङ्कय निराकरोति । न चैवमिति ॥ झल्ग्रहणमपकृष्येति ॥ 'नपुसकस्य झलचः’ इति उत्तरसूत्रादात भाव . । एतच प्रकृतसूत्रे 'युवोरनाकौ' इति सूत्रे च भाष्य स्पष्टम् । शमादिभ्यो घिनुणि उपधावृद्धिमाशङ्कय आह । नोदात्तेति ॥ प्रमादीति ॥ मान्तत्वा भावान्न वृद्धिनिषेध । ननु उत्पूर्वान्मदेरुन्मादीति कथ घिनुण् । अलङ्कजादिसूत्रे उत्पूर्वा न्मदर्विशिष्य इष्णुचेो विधानादित्यत आह । उत्पूर्वादित्यादिना । ननु कथमत्र ताच्छी लिके धिनुणि वासरूपविधिप्रवृत्तिः । ताच्छीलिकेषु वासरूपविधिर्नास्तीति निषेधादित्यत आह । ताच्छीलिकेष्विति ॥ इयम्परिभाषा “निन्दहिस' इत्यादिवक्ष्यमाणसूत्रे ज्ञापितेति भाष्ये स्पष्टम् । प्रायिकमिति ॥ एतच 'सूदीपदीक्षश्च' इति दीपग्रहणादिति ‘जुचङ्कम्य दन्द्रम्य' इति सूत्रे भाष्ये स्पष्टम् । सम्पृचानुरुधाङयमाङयस ॥ सम्पृच, अनुरुध, आडयम, आडयस, परिसृ, संसृज, परिदेवि, सज्वर, परिक्षिप, परिट, परिवद, परिदह, परिमुह, दुष, द्विष, दुह, दुह, युज, आक्रीड, विवेिच, त्यज, रज, भज, अतिचर, अपचर आमुष, अभ्याहन्, एषां सप्तविंशानां द्वन्द्वात्पञ्चमी । सम्पकति ॥ “चजोः' इति कुत्वम् । अनुरोधीत्यादौ लघूपधगुणः । अदुपधषु उपधावृद्धि । परिदेवीति ॥ “देवृ देवने' भ्वादिः । दीव्यतस्तु ण्यन्तस्य न ग्रहणम् । लाक्षणिकत्वात्, अण्यन्तैस्साहचर्याञ्च । अभ्याघातीति ॥ हनस्तोऽविण्णलोः' इति तत्बम् । 'हो हन्तेः’ इति कुत्वम् । ौ कषलस ॥ कष, लस,