पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५३५
बालमनोरमा ।


इयैडो निष्ठातस्य नः स्यादस्पर्शऽर्थे । “हलः' (सू २५५९) इति दीर्घः । शीनं घृतम् । * अस्पर्श' किम् । शीतं जलम् । 'द्रवमूर्तिस्पर्शयो किम् । संश्यानो वृश्चिकः शीतात्सङ्कुचित इत्यर्थः ।

३०२२ । प्रतेश्च । (६-१-२५)

प्रतिपूर्वस्य इयः सम्प्रसारणं स्यान्निष्ठायाम् । प्रतिशीन : ।

३०२३ । विभाषाभ्यवपूर्वस्य । (६-१-२६)

इयः सम्प्रसारणं वा स्यान् । अभिश्यानम्-अभिशीनं घृतम् । अवश्यानः-अवशीनो वृश्चिकः । व्यवस्थितविभाषेयम् । तेनेह न । समवशयानः ।

३०२४ । अञ्चोऽनपादाने । (८-२-४८)

३०२५ । यस्य विभाषा । (७-२-१५)

यस्य कचिद्विभाषयेड़िहितस्ततो निष्ठाया इण्न स्यात् । “उदितो वा


त्रैपादिकत्वान् । शीनं घृन्तमिति । घनीभूतमित्यर्थः । धातूनामनेकार्थत्वात् । यद्यपि घृते ऽप्यनुष्ण शीतस्पशोऽस्त्येव । तथापि शीताव्यस्पर्शविशेष. एव विवक्षितः इति भावः । अस्पर्श किमिति ॥ इयैडो निष्ठातस्य नत्व स्यादित्येतावदेवास्त्वित्यर्थः । शीतञ्जलमिति ॥ शीत स्पर्शवदित्यर्थ । अत्र ‘द्रवमृत' इति सम्प्रसारणमव , न तु निष्ठानत्वमित्यर्थः । एवञ्च द्रवमूत स्पशया.' इत्यस्य स्पश इदमुदाहरणम् । “इयाऽस्पर्श' इत्यस्य तु प्रत्युदाहरणामिति बोध्यम् । सूत्रयोः स्पर्शशब्द प्रधानभूते गुणभूते च वर्तते । तत्र गुणभूते विशेष्यनिन्नः । शीताः आपः शीत जलमित्यादि । यदा तु स्पर्शविशेषा गुण’ प्राधान्येन विवक्षितः तदा कृीवत्वमेव । “शीत हुणे' इत्यमर । सम्प्रसारणविधौ पृच्छति । द्रवमूर्तिस्पर्शयोः किमिति ॥ संश्यान इति । अत्र स्पर्शस्याप्रतीतेः न सम्प्रसारणम् । नत्वन्तु भवलेयवेति भाव । प्रतेश्च ॥ द्रव मूर्तिस्पशभ्यामन्यत्रापि सम्प्रसारणप्राप्त्यर्थमिदम् । प्रतिशीन इति । प्रतिगत इत्यर्थ. । अत्र 'श्येोऽस्पर्श' इति नत्वम् । विभाषा ॥ इयैड इति शषः । सम्प्रसारण वा स्यादात ॥ शषपूरणमिदम्। द्रवमूर्तिस्पर्शयोर्नित्य सम्प्रसारणे प्राप्त ततोऽन्यत्राप्राप्त विभाषेयम्। आभिश्यानं घृतमिति । अत्र द्रवमूर्ती सम्प्रसारणविकल्प । अवश्यानः-अवशीनः वृश्चिक इति । अत्र द्रवमूर्तिस्पशभावेऽपि सम्प्रसारणविकल्पः । समवश्यान इत्यत्रापि सम्प्रसारणविकल्प माशङ्कय आह । व्यवस्थितेति ॥ अञ्चोऽनपादाने । न त्वपादाने इति । अपादान समभिव्याहारे असतीत्यर्थः । यस्य विभाषा ॥ यस्येति । यस्मादित्यर्थः । निष्ठाया इण्न स्यादिति । “श्रीदितः’ इत्यतो निष्ठायामिति 'नेडुशि' इत्यतो नेडिति चानुवर्तत इति भावः । नन्वचेर्नित्य सट्कत्वात् कथन्तस्य कचिद्वेट्कत्वमित्यत आह । उदितो वेति ॥