पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५३३
बालमनोरमा ।



वान् । श्रुत: । 'ऊणतेर्नुवद्भावो वाच्यः (वा १७५१) । तेन एकाच्त्वान्नेट् । ऊणुतः । उत्तः । वृतः ।

३०१६ । रदाभ्यां निष्ठातो नः पूर्वस्य च दः । (८-२-४२)

रपदकाराभ्या परम्य नष्ठातस्य नः स्यात् । निष्ठापेक्षया पूर्वस्य धातो र्दकारस्य च । शू * ऋत इन्–' (सू २३९०) । रपरः, णत्वम् । शीर्ण । बहिरङ्गत्वेन वृद्धेरसिद्धत्वान्नेह । कृतस्यापत्यं कार्तिः । भिन्न । छिन्नः ।

३०१७ । संयोगादेरातो धातोर्यण्वतः । (८-२-४३ )

निष्ठातस्य न. स्यान् । द्राण । स्यान्नः । गलानः ।

३०१८ । ल्वादिभ्यः । (८-२-४४)

एकविंशतेर्लञ्जादिभ्यः प्राग्वन् । लूनः । ज्या, ‘प्रहिज्या' (सू २४१२) । जीनः । 'दुग्वेोदीर्घश्च' (वा ४८३२) । 'दु गतैौ' । दूनः । 'टु टु उपताप


श्रित इत्यादौ इण्निपेधस्मारकमिदम् । क्षुत इति ॥ टु क्षु शब्द' अस्मात् क्तः । ननु ऊर्णत इति कथम् । अ अनेकाच्कन्वेन ‘श्रयुक' इति निषधस्याप्रवृत्तेरित्यत आह । ऊणतेर्नुवदिति । वार्तिकमिदम् । रदाभ्याम् । रदाभ्यामित्यकारावुचारणार्थ । तदाह। रेफदकाराभ्यामिति ॥ निष्ठायाः न् निष्टान्, तस्य निष्ठान इति विग्रहः । तदाह । निष्ठातस्येति । निष्ठातकारस्ये त्यर्थे । नस्यादिति । नकारस्यादित्यर्थः । सूत्रे न इति प्रथमान्तम् । अकार उच्चारणार्थ । दकारस्य चेति । नकार इत्यनुषज्यते । सूत्रे दः इति षष्ठयन्तमिति भावः । चरितम् उदितम् इत्यत्र तु नत्वन्न । निष्ठातकारस्य इटा व्यवहितत्वेन रदाभ्या परत्वाभावात् । रेफात्परस्योदाहरति । शू इति ॥ शृधातोः क्तप्रत्ययसूचनमिदम् । ननु कृतस्यापत्यङ्कार्तिः । अत इञ्, आदिवृद्धिः, रपरत्वम् । अत्र निष्ठातकारस्य रेफात् परस्य नत्व स्यादित्यत आह । बहिरङ्गत्वेनेति ॥ दात्परस्योदाहरति । भिन्नम्, छिन्नमिति । अत्र निष्ठातकारस्य धात्वन्तदकारस्य च नत्व मिति भावः । संयोगादेः ॥ निष्ठातस्य नस्यादिति ॥ ३शषपूरणमिदम् । द्राण इति ॥ 'द्रा कुत्सायाङ्गतौ' अस्मात् क्त, नत्वम्, णत्वम् । ग्लान इति ॥ 'ग्लै हर्षक्षये' ' आदेचः’ इत्यात्वे नत्वम् । लटवादभ्य । एकविंशतेरिति ।। क्रयादिषु प्वादयो द्वाविंशतिः, तेषु आद्यम्पूल विहाय ल्वादिभ्यः एकविशतेरित्यर्थः । ज्येति । धातुसूचनम् । ग्रहिज्येति ॥ सम्प्रसारणसूचनम् । जीन इति ॥ ज्या त इति स्थित “सयोगादेः' इति निष्ठानत्वस्यासिद्ध त्वात् ततः प्रागेव सम्प्रसारणे पूर्वरूपे च कृते आतः परत्वाभावात् “सयोगादेरातः’ इति नत्वस्याप्राप्तावनेन नत्वम् । दुग्वोदर्दीर्घश्चेति । वार्तिकमिदम्। दु गु आभ्याम्परस्य निष्ठातस्य नत्व प्रकृतेदीर्घश्च इत्यर्थः । 'मृदुतया दुतया' इति माघकाव्ये दुतशब्द साधयितुमाह । टु दु