पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४३९
बालमनोरमा ।

सिद्धेः । दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिद्धयति । हस्व विधौ तु स्थानिवत्त्वं दुर्वारम् । भाष्ये तु “ पूर्वत्रासिद्धे न स्थानिवत् इत्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घजश्वरः प्रत्याख्याताः । णाविति जाति परो निर्देशः । दीर्घग्रहणं चेदं मास्त्विति तदाशयः । शामिता-शमिता शमयिता । शामिष्यते-शमिष्यते—शमयिष्यते । यङन्ताण्णिच् । शंशम्यते । शंशामिता—शंशमिता-शंशमयिता । यङ्लुगन्ताण्णिच्यप्येवम् । भाष्यमते तु यङन्ताचिण्वदिटि दीघ नास्तीति विशेषः । एयन्तत्वाभावे । शम्यते मुनिना ।


दीर्घविकल्पविधौ तु न दोष इत्याह । दीर्घविधाविति ॥ दीर्घविकल्पविधौ हि प्रथमस्य णिचो लोपो न स्थानिवत् । दीर्घविधौ स्थानिवत्वनिषेधात् । अतोऽत्र दीर्घविकल्पस्सि छद्यति । दूस्वविधौ तु प्रथमणिलेोपस्य स्थानिवत्व दुर्वारम् । तत्र स्थानिवत्वनिषेधाभावादित्यर्थे । भाष्ये त्विति ॥ न पदान्तसूत्रस्थभाष्ये तु ‘पूर्वत्रासिद्धेन स्थानिवत्' इत्येव सिद्धत्वात् न पदान्त सूत्रे द्विर्वचनसवर्णानुस्वारदीर्घजश्वरः प्रत्याख्याताः । सुद्धयुपास्य इत्यत्र 'अनवि च' इति द्विर्व चनस्य शिण्ढीत्यत्र 'नश्च' इत्यनुस्वारस्य 'अनुस्वारस्य ययि' इति परसवर्णस्य च प्रतिदीत्र इत्यत्र 'हलि च' इति दीर्घस्य, सग्धिरित्यत्र 'झलाञ्शू झशि' इति जश्त्वस्य, जक्षतुारीलयत्र खरि च' इति चत्र्वस्य, पूर्वत्रासिद्धीयत्वादित्यर्थः । ननु ण्यन्ताण्णौ ‘चिण्णमुलोः' इति दीर्घ कर्तव्ये प्रथमणिलोपस्य स्थानिवत्त्व दुर्वारम् । 'चिण्णमुलोः' इति दीर्घस्य पूर्वत्रासिद्धीयत्वाभावान् । ततश्च प्रथमणिचा व्यवहितत्वात् दीघनापतिः । एवञ्च तत्र दीधे कर्तव्ये स्थानिवत्वनिवार णाय दीर्घग्रहणस्यावश्यकत्वात्कथ दीर्घग्रहणप्रल्याख्यानामित्यत आह । णावितीति ॥ चिण्णमुलोः' इति दीर्घविधौ चिण्परे णमुल्परे च णौ इत्यत्र णाविति णित्वजातिप्रधानो निर्देशः । । विण्णमुल्परकणित्वजात परतः इति लभ्यते णित्वजातिश्च णिद्वयेऽस्तीति प्रथमणेः स्थानिवत्वेऽपि दीघों निबध इति, न पदान्तसूत्रे दीर्घग्रहणप्रत्याख्यानभाष्यस्याशय इत्यर्थः । शामिता-शमितेति ॥ शमधातोण्र्यन्ताल्लुटि तासि चिण्वदिटि दीर्घविकल्पः । शमयितेति । चिण्वत्वाभावे वलादिलक्षणे इटि रूपम् । यङन्तादिति ॥ शमधातोयैडि शशम्यते इत्यस्मात् हेतुमण्णौ 'यस्य हलः' इति यकारलोपे अतो लोपे शशमि इत्यस्मात् कर्मलकारे णिलोपे शशम्यते इति रूपमित्यर्थः । शंशामिता-शंशमितेति ॥ “चिण्णमुलो इति दीर्घविकल्पः । शंशमयितेति ॥ चिण्वत् भावे वलादिलक्षणे इटि रूपम् । भाष्य मते त्विति ॥ न पदान्तसूत्रे दीर्घग्रहणप्रत्याख्यानपरभाष्यमते त्वित्यर्थ. । यङन्तादिति ॥ ण्यन्तादिति शेष । यडन्ताण्णिचि यलोपे आहलोपे च कृते शशमित्यस्माल्लुटि तासि चिण्व दिटि कृते तस्यासिद्धत्वाण्णिलेोपे शंशमितेत्यत्र अछेोपस्य स्थानिवत्वेन णिच्परकत्वाभावात् ‘चि ण्णमुलोः'इति दीधे नास्ति । भाष्यमते न पदान्तसूत्रे दीर्घग्रहणाभावे स्थानिवत्त्वनिषेधाभावादि