२७६३ । नोदात्तोपदेशस्य मान्तस्यानाचमेः । (७-३-३४)
उपधाया वृद्धिर्न स्याचिणि ञ्पिति णिति कृति च । अशमि । अदमि । उदात्तोपदेशस्य' इति किम् । अगामि । 'मान्तस्य' किम् । अवादि । अनाचमेः' किम् । आचामि । * अनाचमिकमिवमीनामिति वक्तव्यम्’ (वा ४५१८) । चिणि * आयाद्य –’ (सू २३०५) इति णिङभावे । अकामि । ऐणचोरप्येवम् । अवामि । * वध हिंसायाम्' । हलन्तः । * जानवध्योश्च (सू २५१२) इति न वृद्धिः । अवधि । जाम्रोऽविचिण्णलङित्सु' (सू २४८०) इत्युक्तेर्न गुणः । अजागरि ।
२७६४ । भञ्ज्ञेश्च चिणि । (६-४-३३)
नलोपो वा स्यात् । अभाजि-अभञ्जि ।
२७६५ । विभाषा चिण्णमुलोः । (७-१-६९)
त्यर्थः । शम्यते मुनिनेति ॥ अकर्मकत्वाद्रावे ल इति भावः । नोदात्तोपदेशस्य ॥ मृजेद्विः' इत्यतो वृद्धिरिति “ अत उपधायाः' इत्यतः उपधाया इति “अचो णिति ’ इत्यतो डिणतीति * आतो युक्' इत्यतश्चिण्कृतोः इति चानुवर्तते । तत्र णितीति कृत एव विशेषणम् नतु विणः। अव्यभिचारात् । तदाह । उपधाया इत्यादिना ॥ अनुदात्तोपदेशास्सङ्कहीताः । ततोऽन्यस्सर्वोऽपि धातुरुदात्तोपदेश.। आङ्पूर्वेश्धमिराचमिः तद्वर्जस्येत्यर्थ । अशमि । अदमी ति ॥ शमधातोर्दमधातोश्च लुडि णिचि “अत उपधायाः’ इति वृद्धिर्न । अगामीतेि ॥ गमे रनुदात्तोपदेशत्वादिति भाव. । अवादीति ॥ वदधातुर्नमान्त इति भावः । आचामीति । अनाचमेरित्युत्तेरिह नोपधावृद्धिनिषेधः । अनाचमिकमिवमीनामिति ॥ आचमिकमिव मिवजनाम्' इत्यर्थः । एवञ्च कमिवम्योरपि न निषेध इति फलितम् । ननु कमेर्णिडन्तत्वात् केवलस्य तस्य चिणादौ प्रयोग एव नास्तीत्यत आह । चिण्यायादयः इति ॥ णिङ्णि चोरप्येवमिति ॥ णिडन्ताणिजन्ताद्वा कमेश्विणि णिलोपे सति पूर्ववत् रूप शिष्यते इत्यर्थः । ननु ‘जनिवछद्योश्च' इति वधेरुपधावृद्धिनिषेधेो व्यर्थः । वधादेशस्यादन्ततया अछेोपस्य स्थानिव त्वादेव अवधीत्यादौ उपधावृद्यभावसिद्धेरित्याशङ्कय वधिर्धात्वन्तर हलन्तमेव * जनिवद्वद्योश्च इत्यत्र गृह्यत इत्यभिप्रेत्य आह । वध हिंसायां हलन्तः इति । भलेश्च चिणि ॥ ‘श्रान्न लोपः’ इत्यतोनेति लुप्तषष्टीक लोप इति चानुवर्तते । ‘जान्तनशा विभाषा’ इत्यतो विभाषेति मत्वा शेष पूरयति । नलोपो वा स्यादिति । अभाजीति ॥ नलोपपक्षे उपधावृद्धिः । विभाषा चिवण्णमुलो. ॥ “लभेश्च' इत्यती लभरिति 'इदितो नुम्’ इत्यतो नुमिति चानुवर्तते इति मत्वा