सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३८
[भावकर्मतिङ्
सिध्दान्तकौमुदीसहिता


उश्ध' (सू२३६८) इति कित्त्वम्। इत्वं रपरत्वं 'हलि च' (सू ३५४) इति दीर्घ । “ इणः षीध्वम्--' (सू २२४७) इति नित्यं ढत्वम् । अगीढ़ेम् । ढवमानां द्वित्वविकल्पेऽष्टौ । उक्तषण्णवत्या सह सङ्कलने उक्ता संख्येति ।

इट दीर्घश्चिण्वदिट लत्वढत्वे द्वित्वत्रिकं तथा ।

इत्यष्टानां विकल्पेन चतुर्भिरधिकं शतम् ।।

हेतुमण्यन्तात्कर्मणि ल: । यक् णिलोपः । शम्यते मोहो मुकुन्देन ।

२७६२ । चिण्णमुलोर्दीघेऽन्यतरस्याम् । (६-४-९३)

चणपर णमुलपर च णा मतामुपधायाः दाधा वा स्यात् । प्रकृता मितां ह्रस्वः' (सू २५६८) एव तु न विकल्पितः । ण्यन्ताण्णौ हस्वविकल्पा


वलादिलक्षणस्य इटो ‘लिड़सिचो.' इति विकल्पितत्वात्तदभावपक्षे ‘उश्च' इति सिच.कित्वादुणाभावे ऋत इत्वे रपरत्वे हलि च' इति दीर्घ रेफादिण. परत्वात् 'इणध्षीध्वम्’ इति नित्य ढत्वे अगीर्तुमिति रूपमित्यर्थः । ढवमानामिति ॥ ढस्य ‘अचो रहाभ्याम्' इति द्वित्वविकल्पे एकढ द्विढमिति द्वे रूपे । तयेः वस्य ‘यणो मय.’ इति द्वित्वविकल्पे एकवे द्वे द्विवे द्वे इति चत्वारि । एषु चतुषु मस्य अनचि च' इति द्वित्वविकल्पे एकमानि चत्वारि द्विमानि चत्वारीत्यष्टौ रूपाणीत्यर्थ । षण्णवत्येति॥ उत्क्तषण्णवत्या अष्टाना मेलने सति या सङ्खया सिछद्यति सा चतुरुत्तरशतसङ्खया उत्तेति ज्ञेयमि त्यर्थः। उक्तप्रक्रिया श्लोकेन सगृह्णाति। इट्दीर्घ इत्यादिना । वलादिलक्षण इट्'वृतो वा' इति दीर्घः। अजन्तलक्षणः विण्वदिट्, अचि विभाषा इति लत्व, विभाषेट इति वा ढन्व, धढवमाना द्वित्व त्रिकमित्यष्टाना विकल्पात् चतुरधिक शत रूपाणीत्यर्थ । शम्यते मोहो मुकुन्देनेत्यत्र प्रक्रियां दर्श यति । हेतुमण्यन्तादिति ॥ शमधातोहेतुमण्णौ उपधावृद्धौ अमन्तत्वेन मित्वाद्रस्वे शमीत्यस्मात्कर्मणि ल, नतु भावे । हेतुमण्यन्तस्य सकर्मकत्वनियमादिति भावः । यगिति ॥ तडेि कृते ‘सार्वधातुके यक्’ इत्यनेनेति शेषः । णिलोपः इति ॥ ‘णेरनिटि’ इत्यनेनेति शेषः । लुटि तासि शमि इ ता इति स्थिते अमन्तत्वेन मित्वान्नित्यमुपधाहूस्वे प्राप्त । चिण्णमुलो ॥ दोषो गौ' इत्यतो णाविति “ऊदुपधाया गोहः' इत्यस्मादुपधाया इति 'मिता दूस्वः' इत्यतो मितामिति चानुवर्तते । तदाह । चिण्परे इत्यादिना ॥ नान्वह दीर्घग्रहण व्यर्थम् । 'चि ण्णमुलोदीर्घः' इत्यतः अन्यतरस्यामित्येतावतैव 'मिता हूस्वः' इति पूर्वसूत्रादनुवृत्तस्य ह्रस्वस्य विकल्पे एव दीर्घविकल्पस्य सिद्धेरित्यत आह । प्रकृतो मितां हस्व एव तु न विकल्पि तः इति । कुत इत्यत आह । ण्यन्ताणाविति । शमधातोण्र्यन्ताण्णौ पूर्वपेणलेंीपे लुटि तासि ण्यन्तस्याजन्तत्वाचिण्वदिटि तस्याभीयत्वेनासिद्धतया अनिटीति निषेधाभावाण्णिलोपे दीर्घविकल्पे सति शमिता शामितेति रूपद्वयमिष्यते । हूस्वविकल्पस्य विधौ तु हूस्वविकल्पो न स्यात् । प्रथम णिलोपस्य ‘अचः परस्मिन्' इति स्थानिवत्वेन व्यवहिततया चिण्परकणिपरकत्वाभावादित्यर्थः ।