पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
[चुरादि
सिद्धान्तकौमुदीसहिता

मित्त्वं न । घट्ट १६३१ चलने । मुस्त १६३२ सङ्घाते । खट्ट १६३३ संवरणे । षट्ट १६३४ स्फिट्ट १६३५ चुबि १६३६ हिंसायाम् । पुल १६३७ सङ्घाते । 'पूर्ण' इत्येके । 'पुण' इत्यन्ये । पुंस १६३८ अभिवर्धने । टकि १६३९ बन्धने ।टङ्कयति-टङ्कति । धूस १६४० कान्तिकरणे । धूसयति । दन्त्यान्तः । 'मूर्धन्यान्तः' इत्येके । 'तालव्यान्तः' इत्यपरे । कीट १६४१ वर्णे । चूर्ण १६४२ सङ्कोचने । पूज १६४३ पूजायाम् । अर्क १६४४ स्तवने । 'तपने' इत्येके । शुठ १६४५ आलस्ये । शुठि १६४६ शोषणे । शुण्ठयति-शुण्ठति । जुड १६४७ प्रेरणे गज १६४८ मार्ज १६४९ शब्दार्थौ । गाजयति । मार्जयति । मर्च १६५० च । मर्चयति । घृ १६५१ प्रस्रवणे । 'स्रावणे' इत्येके । पचि १६५२ विस्तारवचने । पञ्चयति । 'पञ्चते' इति व्यक्तार्थस्य शपि गतम् । तिज १६५३ निशाने । तेजयति । कॄत १६५४ संशब्दने ।

१५७१ । उपधायाश्च । (७-१-१०१)

धातोरुपधाभूतस्य ॠत इत्स्यात् । रपरत्वम् । 'उपधायां च' (२२६५) इति दीर्घः । कीर्तयति । 'उरृत्' (२५६७) । अचीकृतत्-अचिकीर्तत् । वर्ध १६५५ छेदनपूरणयोः । कुबि १६५६ आच्छादने । कुम्बयति । 'कुभि' इत्येके । लुबि १६५७ तुबि १६५८ अदर्शने । 'अर्दने' इत्येके । ह्लप १६५९ व्यक्तायां वाचि । 'क्लप' इत्येके । चुटि १६६० छेदने । इल १६६१ प्रेरणे । एलयति । ऐलिलत् । म्रक्ष १६६२ म्लेच्छने । म्लेच्छ १६६३ अव्यक्तायां वाचि । ब्रूस १६६४ बर्ह १६६५ हिंसायाम् । केचिदिह गर्ज गर्द शब्दे गर्ध अभिकाङ्क्षायां इति पठन्ति । गुर्द १६६६ पूर्वनिकेतने । जसि १६६७


अहेतावित्यस्य व्याख्यान स्वार्थे णिचीति । तेनेति ॥ ज्ञपादिचिञन्तव्यतिरिक्तचुरादीनां मित्त्वनिषेधो नेत्यर्थः । शमादीनामिति ॥ 'शम आलोचने' । 'अम रोगे' इत्यादीनामग्रे चुरादौ पठिष्यमाणानामित्यर्थ. । अमन्तत्वेति ॥ 'जनीजॄष्न्कसुरञ्जोऽमन्ताश्च' इत्यमन्तत्वनिमित्तकमित्यर्थः । कॄत संशब्दने । उपधायाश्च ॥ 'ॠत इद्धातोः' इत्यनुवर्तते । तदाह । धातोरित्यादिना ॥ चडि 'उर् ॠत्' इत्युपधाया ॠत्त्वपक्षे आह । अचीकृतदिति ॥ उपधाया ॠत्त्वे कृत् इत्यस्य द्वित्वे उरदत्त्वे लघुपरतया सन्वत्त्वादित्त्वे 'दीर्घो लघोः' इति दीर्घ इति भावः । ॠत्त्वाभावपक्षे आह । अचिकीर्तदिति ॥ ॠत इत्त्वे रपरत्वे 'उपधा-