पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२९३
बालमनोरमा ।

रक्षणे । 'मोक्षणे' इति केचित् । जंसयति-जंसति । ईड १६६८ स्तुतौ । जसु १६६९ हिंसायाम् । पिडि १६७० सङ्घाते । रुष १६७१ रोषे । 'रुट' इत्येके । डिप १६७२ क्षेपे । ष्टुप १६७३ समुच्छ्राये ।

आ कुस्मादात्मनेपदिनः । 'कुस्मनाम्नो वा' इति वक्ष्यते । तमभिव्याप्येत्यर्थः । अकर्तृगामिफलार्थमिदम् । चित १६७४ सञ्चेतने । चेतयते । अचीचितत । दशि १६७५ दंशने । दंशयते । अददंशत । इदित्त्वाण्णिजभावे दंशति ।आकुस्मीयमात्मनेपदं णिच्सन्नियोगेनैवेति व्याख्यातार : । नलोपे सञ्जिसाहचर्याभ्द्वादेरेव ग्रहणम् । दसि १६७६ दर्शनदंशनयोः । दंसयते-दंसति । 'दस' इत्यप्येके । डप १६७७ डिप १६७८ सङ्घाते । तत्रि १६७९ कुटुम्बधारणे । तन्त्रयते । चान्द्रा धातुद्वयमिति मत्वा 'कुटुम्बयते' इत्युदाहरन्ति । मत्रि १६८० गुप्तपरिभाषणे । स्पश १६८१ ग्रहणसंश्लेषणयोः । तर्ज १६८२ भर्त्स १६८३ तर्जने । बस्त १६८४ गन्ध १६८५ अर्दने । बस्तयते । गन्धयते । विष्क १६८६ हिंसायाम् । 'हिष्क' इत्येके | निष्क १६८७ परिमाणे । लल १६८८ ईप्सायाम् । कूण १६८९ सङ्कोचे । तूण १६९० पूरणे । भ्रूण १६९१ आशाविशङ्कयोः । शठ १६९२ श्लाघायाम् । यक्ष १६९३ पूजायाम् । स्यम १६९४ वितर्के । गूर १६९५ उद्यमने । शम १६९६ लक्ष १६९७ आलोचने । 'नान्ये मितः-' इति मित्त्वनिषेधः । शामयते । कुत्स १६९८ अवक्षेपणे । त्रुट १६९९ छेदने । 'कुट' इत्येके । गल १७०० स्रवणे । भल १७०१ आभण्डने । कूट १७०२ आप्रदाने । 'अवसादने' इत्येके । कुट्ट १७०३ प्रतापने । वञ्चु १७०४ प्रलम्भने । वृष १७०५ शक्तिबन्धने । शक्तिबन्धनं प्रजननसामर्थ्यं, शक्ति-


याञ्च' इति दीर्घे कीर्त् इत्यस्य द्वित्वे हलादिशेषे अभ्यासह्रस्वे कुत्वे इति भावः । लघुपरकत्वाभावेन सन्वद्भावविषयत्वाभावान्नाभ्यासदीर्घः । आकुस्मादित्यत्र आडभिविधाविति मत्वा आह | तमभिव्याप्येति ॥ ननु 'णिचश्च' इति सिद्धे आत्मनेपदविधान व्यर्थमित्यत आह । अकर्तृगामीति ॥ ननु 'दशि दशने' णिजभावे दशति इति कथम् । आकुस्मीयत्वेन णिजभावेऽपि तडो दुर्वारत्वादित्यत आह । आकुस्मीयमिति ॥ 'दशसञ्जस्वञ्जा शपि' इति नलोपमाशङ्क्य आह । नलोपे सञ्जीति ॥ स्पश ग्रहणेति ॥ अपस्पशत 'अत्स्मृदॄत्वर' इति अभ्यासस्य अत्त्व इत्त्वापवाद. । गूर उद्यमने । अयन्दीर्घोपधः । गूरयते । तुदादौ तु 'गुरी उद्यमने' इति ह्रस्वोपधः । दीर्घादौ तु 'घूरी, गुरी हिसागत्योः' इति दीर्घोपध एवेति