। श्रीरस्तु ।
॥ अथ तिङन्तक्र्यादिप्रकरणम् ।
डु क्रीञ् १४७४ द्रव्यविनिमये ।
२५५४ । क्र्यादिभ्यः श्ना । (३-१-८१)
क्रीणाति । 'ई हल्यघोः' (सू २४९७) । क्रीणीतः । ईत्वात्पूर्वं झेरन्तादेशः । परत्वान्नित्यत्वादन्तरङ्गत्वाच्च | एवं झस्य अद्भावः | ततः 'श्नाभ्यस्तयोः-' (सू २४८३) इत्याल्लोपः । क्रीणन्ति । क्रीणीते । क्रीणाते । क्रीणते । चिक्राय । चिक्रियतुः । चिक्रयिथ-चिक्रेथ । चिक्रियिव । चिक्रियिषे । क्रेता । क्रेष्यति । क्रीयात् । क्रेषीष्ट । अक्रैषीत् । अक्रेष्ट । प्रीञ् १४७५ तर्पणे कान्तौ च । कान्तिः कामना । प्रीणाति । प्रीणीते । श्रीञ् १४७६ पाके । मीञ १४७७ हिंसायाम् । 'हिनुमीना' (सू २५३०) । प्रमीणाति । प्रमीणीतः । 'मीनातिमिनोति-' (सू २५०८) इत्येज्विषये आत्त्वम् । ममौ । मिम्यतुः । ममिथ-ममाथ । मिम्ये । माता । मास्यति । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् | अमास्त । षिञ् १४७८ वन्धने । सिनाति । सिनीते । सिषाय । सिष्ये | सेता | स्कुञ् १४७९ आप्रवणे ।
अथ श्नाविकरणधातवो निरूप्यन्ते । डु क्रीञिति ॥ क्र्यादिभ्यः श्ना ॥ कर्त्रर्थे सार्वधातुके परे क्र्यादिभ्यः श्नाप्रत्ययः स्यात् । स्वार्थे इत्यर्थः । शपोऽपवादः । क्रीणातीति ॥ श्नाप्रत्ययस्य अपित्सार्वधातुकत्वेन डित्त्वादीकारस्य न गुण इति भावः । ई हल्यघोरिति ॥ हलादौ क्डिति सार्वधातुके ईत्वमिति भाव । क्री णा झि इति स्थिते 'ई हल्यघो' इति ईत्वमाशङ्क्य आह । ईत्वात्पूर्वमिति । नित्यत्वादिति ॥ अकृते कृते च ईत्वे अन्तादेशस्य प्रवृत्तेरिति भाव । एवं झस्येति ॥ क्री णा झ इति स्थिते 'आत्मनेपदेष्वनतः' इत्यदादेशोऽपि ईत्वात्पूर्वमित्यर्थः । ततः इति ॥ अन्तादेशाददादेशाच्च पश्चादित्यर्थः । अजादौ क्डिति सार्वधातुके श्नाप्रत्ययस्य आल्लोपः । भारद्वाजनियमात्थलि वेडिति मत्वा आह । चिक्रयिथ-चिक्रेथेति । चिक्रियिंवेति ॥ क्रादिनियमादिडिति भावः । क्रीणातु । क्रीणीहि । अक्रीणात् । अत्रक्रीणीत । क्रीणीयात् ।