पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
[तनादि
सिद्धान्तकौमुदीसहिता

करोतेः प्रत्ययोकारस्य नित्यं लोपः स्याद्वमयोः परयोः । कुर्वः । कुर्मः । चकर्थ । चकृव । कर्ता । करिष्यति ।

२५४९ । ये च (६-४-१०९)

कृञ उलोपः स्याद्यादौ प्रत्यये परे । कुर्यात् । आशिषि क्रियात् । कृषीष्ट । अकार्षीत् । 'तनादिभ्यः -' (सू २५४७) इति लुकोऽभावे 'ह्रस्वादङ्गात्' (सू २३६९) इति सिचो लोपः । अकृत । अकृथाः ।

२५५० । संपरिभ्यां करोतौ भूषणे । (६-१-१३७)

२५५१ । समवाये च । (६-१-१३८)

सम्परिपूर्वस्य करोतेः सुट् स्याद्भूषणे सङ्घाते चार्थे । संस्कररोति | अलङ्करोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । संपूर्वस्य क्वचिदभूषणेऽपि सुट् । 'संस्कृतं भक्षाः' (सू १२१७) इति ज्ञापकात् । 'परिनिविभ्यः-' (सू २२७५) इति षः । परिष्करोति । 'सिवादीनां वा--' (सू २३५९) । पर्यष्कार्षीत्-पर्यस्कार्षीत् ।

२५५२ । उपात्प्रतियत्नवैकृतवाक्याध्द्याहारेषु च । (६-१-१३९)

उपात्कृञः सुट् स्यादेष्वर्थेषु । चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम्। विकृतमेव वैकृतं विकारः । वाक्यस्याध्द्याहारः आकाङ्कितैकदेशपूरणम् ।


यात्' इत्यनुवर्तते । ‘लोपश्चास्यान्यतरस्याम्’ इत्यतः लोपः म्वोरिति च । तदाह। करोतेरिति ॥ चकर्थेति ॥ 'कृस्पृभृवृ' इति नेडिति भाव.। अजन्तत्वेऽपि ॠदन्तत्वात् भारद्वाजमतेऽपि नेट् । करिष्यतीति ॥ करोतु-कुरुतात् । कुरु । करवाणि । कुरुताम् । कुर्वाताम् । करवै । करवावहै । करवामहै । अकरोत् । अकुरुताम् । अकुरुत । अकुर्वाताम् । विधिलिङि कुरु यात् इति स्थिते । ये च ॥ 'लोपश्चास्यान्यतरस्याम्' इत्यतो लोप इति अस्येति चानुवर्तते । अस्येत्यनेन पर्वसूत्रे उत इत्युपात्तः उत्परामृश्यते । ‘नित्यङ्करोतेः’ इत्यतः करोतेरित्यनुवर्तते । अङ्गाक्षिप्त प्रत्ययो यकारेण विशेष्यते तदादिविधि । तदाह । कृञः उलोपः इति । आशिषि क्रियादिति ॥ 'रिड् शयग्लिड्क्षु' इति रिडिति भाव। कृषीष्टेति ॥ 'उश्च' इति कित्त्वान्न गुण इति भाव । अकार्षीदिति ॥ सिचि वृद्धौ रपरत्वमिति भाव । ननु लुडस्तडि अकृ स् त इति स्थिते 'तनादिभ्यस्तथासो' इति सिचो लुकि अकृतेतीष्ट सिध्द्यति । सिचो लुगभावे तु सकार श्रूयेतेत्यत आह । तनादिभ्यः इत्यादि ॥ संपरिभ्याम् । समवाये च ॥ सुट् स्यादिति ॥ 'सुट् कात्पूर्व.' इत्यतः 'नित्य करोते' इत्यतश्च तदनुवृत्तेरिति भावः । प्रागुक्तयोरिति ॥ भूषणसमवाययोरित्यर्थ । ननु ‘सपरिभ्याम्’ इति सुट् पदद्वयापेक्षत्वात्