पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७३
बालमनोरमा ।

(सू २४२८) इत्यनुनासिकलोपः । तङि । अतत-अतनिष्ट । अतथा:—अतनिष्ठाः । षणु १४६५ दाने । सनोति। सनुते । 'ये विभाषा' (सू २३१९) । सायात्-सन्यात् । 'जनसन-' (२५०४) इत्यात्त्वम् । असात-असनिष्ट । असाथाः—असनिष्ठाः । क्षणु १४६६ हिंसायाम् । क्षणोति । क्षणुते । 'ह्म्यन्त-' (सू २२९९) इति न वृद्धिः । अक्षणीत् । अक्षत-अक्षणिष्ट । अक्षथाः-अक्षणिष्ठाः । क्षिणु १४६७ च । उप्रत्ययनिमित्तो लघूपधगुणः । 'संज्ञापूर्वको विधिरनित्यः' (९४) इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । क्षिणोति-क्षेणोति । क्षेणितासि । क्षेणितासे । अक्षेणीत् । अक्षित-अक्षेणिष्ट । ऋणु १४६८ गतौ । ऋणोति-अर्णोति । अर्णुतः । अर्णुवन्ति । आनर्ण । आनृणे । अर्णितासि । आर्णीत् । आर्त-आर्णिष्ट । आर्था:-आर्णिष्ठाः । तृणु १४६९ अदने । तृणोति--तर्णोति । तृणुते-तर्णुते । घृणु १४७० दीप्तौ । जघर्ण । जघृणे ।

अथ द्वावनुदात्तेतौ । वनु १४७१ याचने । वनुते । ववने । चान्द्रमते परस्मैपदी । वनोति । ववान । मनु १४७२ अवबोधने । मनुते । मेने । डु कृञ् १४७३ करणे । करोति । 'अत उत्सार्वधातुके' (सू २४६७) कुरुतः । यण् 'न भकुर्छुराम्' (सू १६२९) इति न दीर्घः । कुर्वन्ति ।

२५४८ । नित्यं करोतेः । (६-४-१०८)


अतनिष्टेति ॥ अतथाः-अतनिष्ठाः इति च ॥ अतनिषाथामित्यादि सुगमम् । 'षणु दाने'। षोपदेशोऽयम् । तनुवद्रूपाणि । असातेति ॥ सिचो लुक्पक्षे रूपम् । असनिष्टेति ॥ इट् । झलादिपरकत्वाभावादात्त्वन्नेति भावः । क्षणुधातुरदुपधः । “वज्रेऽध्वर्युः क्षण्वीत” इति तैत्तिरीये । क्षिणु चेति ॥ इदुपधः । अयमपि हिसायामित्यर्थः । “वज्रेऽध्वर्युः क्षिण्वीत” इति शाखान्तरं शाबरभाष्ये उदाहृतम् । ननु क्षिणोतीत्यत्र उप्रत्ययमाश्रित्य इकारस्य लघूपधगुणः कस्मान्नेत्यत आह । उप्रत्ययनिमित्तः इति ॥ 'ॠणु गतौ' । अत्रापि क्षणुवत् । मतभेदाल्लघूपधगुणतदभावौ । तदाह । ऋणोति-अर्णोतीति ॥ एवमग्रेऽपि । अर्णुवन्तीति ॥ सयोगपूर्वकत्वात् 'हुश्नुवोः' इति न यणिति भावः । डु कृञ् करणे । करोतीति ॥ उप्रत्ययमाश्रित्य ॠकारस्य गुणः रपरत्वम् । उकारस्य तु तिपमाश्रित्य गुणः । कुरुतः इति ॥ तसो डित्त्वादुकारस्य न गुणः । कुरु अन्ति इति स्थिते उवडमाशङ्क्य आह । यणिति ॥ 'हुश्नुवोः' इत्यनेनेति शेषः | उकारस्य यणि कुर्व् अन्ति इति स्थिते 'हलि च' इति दीर्घमाशङ्क्य आह । नभेति ॥ वसि मसि च ‘लोपश्चास्यान्यतरस्याम्’ इत्युकारलोपविकल्पे प्राप्ते। नित्यं करोतेः ॥ 'उतश्च प्रत्य- 35