पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
[रुधादि
सिद्धान्तकौमुदीसहिता

२५४५ । तृणह इम् । (७-३-९२)

तृहः श्नमि कृते इमागमः स्याद्धलादौ पिति । तृणेढि । तृण्ढ: | ततई । तर्हिता । अतृणेट् । हिनस्ति । जिहिंस । हिंसिता । उन्दी १४५८ क्लेदने | उनत्ति । उन्त: । उन्दन्ति । उन्दाञ्चकार । औनत् । औन्ताम् | औन्दन् । औनः—औनत् । औनदम् । अञ्जू १४५९ व्यक्तिमर्षणवकान्तिगतिषु | अनक्ति | अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ-आनङ्क्थ | अङ्क्ता । अञ्जिता । अङ्ग्धि । अनजानि । आनक् |


सेट् | श्नमि कृते णत्वे तृणह् ति इति स्थिते । तृणह इम् ॥ तृणह इति षष्ठी । कृतश्नमः तृहधातोर्निर्देश |'नाभ्यस्तस्य' इत्यत पितीति 'उतो वृद्धिः' इत्यत हलीति चानुवर्तते । फलितमाह । तृहः श्नमि कृते इति ॥ मित्त्वादच पर । श्नमि कृते इत्यनुक्तौ तु येन नाप्राप्तिन्यायेन इमागमेन श्नम् बाध्द्येत | 'सत्यपि सम्भवे बाधनम्भवति' इति न्यायात् । अन्यथा 'ब्राह्मणेभ्यो दधि दीयताम् । तक्र कौण्डिन्याय' इत्यत्र तक्रेण दधि न बाध्द्येत | श्नमा शप्च बाध्द्येत | देशभेदेन उभयसम्भवादिति भाव | तृणेढीति ॥ तृणह् ति इति स्थिते इमागमे आद्गुणे तृणे ह् ति इति स्थिते | ढत्वधत्वष्टुत्वढलोपा इति भाव: | तृण्ढः इति ॥ तसि श्नमि कृते तृणह् तस् इति स्थिते तसः अपित्त्वादिमागमाभावे श्नसो इत्यल्लापे ढत्वधत्वष्टुत्वढलोपा इति भाव । तृहन्ति । तृणेक्षि | तृण्ढः । तृण्ढ । तृणेह्मि । तृह्व । तृह्म | ततर्हेति ॥ ततृहतुः । ततर्हिथ । ततृहिव | तर्हितेति ॥ सेडिति भाव । तर्हिष्यति । तृणेढु-तृण्ढात् । तृण्ढाम् । तृंहन्तु । तृण्ढि-तृण्ड्ढि | तृण्ढात् । तृण्ढम् । तृण्ढ । तृणहानि । तृणहाव । तृणहाम । अतृणेडिति ॥ लडस्तिपि श्नमि इम् हृल्ड्यादिलोपः ढत्वजश्त्वे इति भाव । अतृण्ढाम् । अतृहन् । अतृणेट् । अतृण्ढम् । अतृण्ढ । अतृणहम् । अतृह्व । अतृह्म । तृह्यात् । तृह्यात् । अतर्हीत् । अतर्हिष्यत् | हिसिधातोरुदाहरति । हिनस्तीति ॥ इह श्नमि इदित्त्वान्नुमि च कृते ‘ श्नान्न लोप.’ इति नुमो लोप इति भावः । हिस्तः । हिसन्ति । हिनस्सि । हिस्थः । हिस्थ । हिनस्मि । हिस्वः | हिस्म.। जिहिंसेति ॥ किति इदित्त्वान्नलोपो न । जिहिसतु. । जिहिसिथ । हिंसितेति ॥ सेडिति भावः । हिसिष्यति । हिनस्तु । हिस्ताम् । हौ श्नमि नुमि कृते 'श्नान्नलोपः' इति नुमो लोपे हेरपित्त्वेन डित्त्वात् 'श्नसोः' इत्यल्लोपे 'धि च' इति सलोपे, हिन्धि इति रूपम्। हिस्तात् | हिनसानि । अहिनत् । अहिस्ताम् । अहिसन् । सिपि रुर्वा । अहिन –अहिनत् । अहिस्तम् । अहिनसम् । अहिस्व । हिस्यात् । हिस्याताम् । आशीर्लिङि श्नमभावान्नुमेव | इदित्त्वान्नलोपो न | हिस्यादित्येव । हिस्यास्ताम् । अहिसीत् । अहिसिष्यत् । उन्दी क्लेदने | उन्दन्तीति ॥ उनत्सि | उन्थः | उनद्मि | उन्द्व: | उन्दामिति ॥ इजादेश्चेत्याम् | उन्दिता । उन्दिष्यति । उनत्तु-उन्तात् । उन्धि । उनदानि । लड्याह । औनदिति ॥ औन्ताम् । औन्दन् । औनः—औनत् । औनदम् । औन्द्व। उन्द्यात् । उद्यात् । अञ्जूधातुः