पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
[अदादि
सिद्धान्तकौमुदीसहिता

२४६७ । अत उत्सार्वधातुके । (६-४-११०)

उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके क्डिति । उदिति तपरसामथ्यन्न गुणः । विदांकुरुतात् । विदांकुरुताम् । 'उतश्च–' (सू २३३४) इति हेर्लुक् । आभीयत्वेन लुकोऽसिद्धत्वादुत्वम् । विदांकुरु । विदाङ्करवाणि । अवेत् । अवित्ताम् । 'सिजभ्यस्त-' (सू २२२६) इति झेर्जुस् । अविदुः ।

२४६८ । दश्च । ८-२-७५)

धातोर्दान्तस्य पदस्य सिपि परे रुः स्याद्वा । अवे:-अवेव् । अस १०६५ भुवि । अस्ति |

२४६९ । श्नसोरल्लोपः । (६-४-१११)

श्नस्यास्तेश्चाकारस्य लोपः स्यात्सार्वधातुके क्ङिति । स्तः | सन्ति | ' तासस्त्योः -' (सू २१९१) इति सलोपः । असि । स्थ: । स्थ । अस्मि । स्वः । स्मः । आर्धधातुके' (सू २४३२) इत्यधिकृत्य ।


इति स्थिते । अत उत् । उप्रत्ययान्तस्येति ॥ 'उतश्च ग्रत्ययात्' इत्यत. तदनुवृत्तेरिति भावः । कृञोऽकारस्य उदिति ॥ 'नित्य करोते' इत्यतः तदनुवृत्तेरिति भावः । क्ङितीति ॥ 'गमहन' इत्यत तदनुवृत्तेरिति भाव । अकारस्य उत्वे कृते तस्य लघूपधगुणमाशङ्क्य आह । तपरेति ॥ । इद स्थानिवत्सूत्रे भाष्ये स्पष्टम् । विदांकुरुतामिति ॥ विदाङ्कुर्वन्त्वित्यपि ज्ञेयम् । ‘न भकुर्छुराम्’ इति निषेधात् ‘हलि च' इति दीर्घो न । हेर्लुगिति ॥ विदाङ्कुरु हि इति स्थिते ‘अत उत्सार्वधातुके' इत्युत्त्वम्परमपि वाधित्वा नित्यत्वात् ‘उतश्च प्रत्ययात्’ इति हेर्लुगित्यर्थ । तर्हि सार्वधातुकाभावात् कथमुत्त्वमित्यत आह । आभीयत्वेनेति ॥ विदांकुर्विx ॥ विदाङ्कुरुतात् । वेदाङ्कुरुतम् । विदाङ्कुरुत । विदाङ्करवाणीति । आट पित्त्वेन डित्त्वाभावादुकारस्य गुण इति भाव. । विदाङ्करवाव । विदाङ्करवाम । लड्याह । अवेदिति ॥ हल्ड्यादिना सिपो लोपे विशेषमाह । दश्च ॥ 'सिपि धातोरुर्वा' इत्यनुवृत्तम् । द इति षष्ठ्यन्तेन धातुर्विशेष्यते । तदन्तविधि । पदस्येत्यधिकृतम् । तदाह । धातोर्दान्तस्य पदस्येति ॥ अलोऽन्यस्येत्यन्त्यस्य ज्ञेयम् । अवेदिति । सिपो हल्ड्यादिलोपे दकारस्य रुत्वविकल्प । अवित्तम् । अवित्त । अवेदम् । अविद्व । अविद्म । विद्यात् । विद्याताम् । विद्यात् । विद्यास्ताम् । अवेदीत् । अवेदिष्यत् । असभुवीति ॥ भवन भूः । सत्तायामित्यर्थ | अस्तीति ॥ सस्य चर्त्वेऽपि सकार एव भवति नतु तकार, अल्पप्राणतया प्रयत्नभेदात् । श्नसोरल्लोपः ॥ अत् इति लुप्तषष्ठीकम्पदम् । श्न अस् अनयोर्द्वन्द्वात्षष्ठीद्विवचनम् । शकन्ध्वादित्वात् पररूपम् । श्नेति श्नम्प्रत्ययैकदेशनिर्देशः । 'अत उत्सार्वधातुके ' इत्यतः सार्वधातुके इत्यनुवर्तते, 'गमहन' इत्यत क्डितीति । तदाह । श्नस्येत्यादिना । अस्तेर्भूः ॥ अस-