पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२०५
बालमनोरमा ।

विवेद । विविदतुः । 'उषविद-' (सू २३४१) इत्याम्पक्षे 'विद' इत्यकारान्तनिपातनान्न लघूपधगुणः । विदाञ्चकार । वेदिता ।

२४६५ । विदांकुर्वन्त्वित्यन्यतरस्याम् । (३-१-४१)

वेत्तेर्लोट्याम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते । पुरुषवचने न विवक्षिते । इतिशब्दात् ।

२४६६ । तनादिकृञ्भ्य उः । (३-१-७९)

तनादेः कृञश्च 'उ' प्रत्ययः स्यात् । शपोऽपवादः । तनादित्वादेव सिद्धे कृञ्ग्रहणं 'गणकार्यस्यानित्यत्वे' लिङ्गम् । तेन 'न विश्वसेदविश्वस्तम्' इत्यादि सिद्धम् । विदाङ्करोतु ।


व्यवधानात् नैते आदेशा । इत्यादीति ॥ । विदन्ति । वेत्सि । वित्थ । वित्थ । वेद्मि । विद्व । विद्म । विविदतुरिति ॥ विविदु । विवेदिथ । विविदथुः । विविद । विवेद । विविदिव । विविदिम । आम् पक्षे इति ॥ न लघूपधगुण इत्यन्वयः ।कुत इत्यत आह । अकारान्तनिपातनादिति ॥ ‘उंषविद’ इति सूत्रे विदेत्यकारान्तत्व आम्सन्नियोगेन निपात्यत इत्यर्थ. ।आमि अतो लोपः । तस्य स्थानिवत्त्वात् न लघूपधगुण इति भाव. । वेदितेति ॥ वेदिष्यतीत्यपि ज्ञेयम् । विदांकुर्वन्त्वित्यन्यतरस्याम् ॥ 'कृञ् चानुप्रयुज्यते लिटि' इत्युत्तररामदं सूत्रम् । इतिशब्द प्रकारे । एवञ्जातीयक वैकल्प्येन प्रत्येतव्यमित्यर्थः । वेत्तेरिति ॥ लुग्विकरणात् विदधातो लोटि परे आम्प्रत्ययो निपात्यत इत्यर्थः । लोडन्तेति ॥ आमन्ताद्विदेः लोडन्तकृञ्धातो अनुप्रयोगश्च निपात्यत इत्यर्थ । ननु 'विदाङ्कुर्वन्तु' इति लोटि प्रथमपुरुषबहुवचनस्यैव सूत्रे निर्देशात् कथ लोडन्तसामान्यानुप्रयोग इत्याह । पुरुषेति ॥ कुर्वन्त्विति प्रथमपुरुषो बहुवचनञ्च न विवक्षितमित्यर्थः । तयोस्तु नान्तरीयकमुच्चारणमिति भाव. । इतिशब्दादिति ॥ तस्य प्रकारवचनस्य लोकप्रयोगानुसारित्वादिति भावः । तनादिकृञ्भ्य उः । शपोऽपवादः इति ॥ अनेन शब्विषय एवास्य प्रवृत्तिरिति सूचितम् । 'सार्वधातुके यक्’ इत्यत. सार्वधातुकग्रहणस्य 'कर्तरि शप्’ इत्यतः कर्तरीत्यस्य चानुवृत्तेरिति भाव. । तेनेति ॥ गणकार्यस्यानित्यतया 'श्वसेत्’ इत्यत्र अदादिगणकार्य शपो लुङ्न भवतीत्यर्थ । वस्तुतस्तु कृञ्ग्रसणस्यात्र भाष्ये प्रत्याख्यातत्वात् उक्तज्ञापनाभावात् विश्वसेदित्यसिद्धमेवेत्याहुः । विश्वस्तमित्यत्र तु आगमशास्त्रस्यानित्यत्वात् नेडित्याहुः । विदाङ्करोत्विति ॥ अत्र विदेर्लोटि आमि लोटो लुकि आमन्ताद्विदे कृञो लोडन्तस्यानुप्रयोगः । तत्र लोटस्तिपि 'एरु.' इत्युत्वे शपम्बाधित्वा उप्रत्यये ऋकारस्य गुणे रपरत्वे उकारस्य तिब्निमित्तो गुणः । तातडि तु ऋकारस्य गुणे रपरे तातडो डित्त्वात् उकारस्य गुणाभावे विदाङ्कुरुतात्