पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
[अदादि
सिद्धान्तकौमुदीसहिता

'सम्पूर्वस्य ख्यातेः प्रयोगो न' इति न्यासकारः । प्रा १०६१ पूरणे । 'मा १०६२ माने । अकर्मकः। तनौ ममुस्तत्र न कैटभद्विषः' इति माघः । उपसर्गवशेनार्थान्तरे तु सकर्मकः । 'उदरं परिमाति मुष्टिना ' । 'नेर्गद-' (सू २२८५) इत्यत्र नास्य ग्रहणम् । प्रणिमाति-प्रनिमाति । वच १०६३ परिभाषणे । वक्ति । वक्तः । अयमन्तिपरो न प्रयुज्यते । 'बहुवचनपरः' इत्यन्ये। 'झिपरः' इत्यपरे । वग्धि । वच्यात् । उच्यात् । अवोचत् । विद १०६४ ज्ञाने |

२४६४ । विदो लटो वा । (३-४-८३)

वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे वेत्ति । वित्तः इत्यादि ।


सार्वधातुकेऽपीति भावः। अत्र व्याख्यानमेव शरणम् । एवञ्च सङ्ख्याति इत्यादि नास्तीति फलितम् । सख्यादिशब्दास्तु ख्याञादेशस्येति बोध्यम्। मा माने इति ॥ मान परिमितिरिति भाव.। तदाह । अकर्मक इति ॥ माति घृत पात्रेऽस्मिन्निति भाव । परिमितभवतीत्यर्थः । सङ्गृहीत भवतीति यावत् । अत्रार्थे शिष्टप्रयोगसवाद दर्शयति । तनौ ममुस्तत्रेति ॥ 'तनौ ममुस्तत्र न कैटभद्विषः तपोधनाभ्यागमसम्भवा मुद’ इति माघकाव्ये । तपोधनस्य नारदस्य अभ्यागमेन आगमनेन सम्भवा मुद सन्तोषाः कैटभद्विष. श्रीकृष्णस्य तनौ शरीरे न ममु. परिमिता न बभूवु आधिक्यान्न सङ्गृहीता बभूवुरिति यावत् । अर्थान्तरे त्विति ॥ परिच्छेदे त्वित्यर्थ । उदरमिति ॥ उदर परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु । इति नैषधकाव्ये । कोऽपि कुतुकी दमस्वसु दमयन्त्याः उदर मुष्टिना परिमाति किमु परिगृण्हातीत्यर्थः । नास्य ग्रहणमिति ॥ घुप्रकृतिमाडिति भाष्यादिति भाव । एवञ्च ‘शेषे विभाषाऽकखादौ' इति णत्वविकल्प इति मत्वा आह । प्रणिमाति-प्रनिमातीति ॥ ममौ । ममिथ-ममाथ । ममिव । माता । मास्यति । मातु । अमात् । अमासीत् । अमास्यत् । वच परिभाषणे । अनिट् । अयमन्तीति ॥ लटि प्रथमपुरुषबहुवचन नास्तीत्यर्थः । बहुवचन परः इति न प्रयुज्यत इति शेष. । अस्मिन् पक्षे पुरुषत्रये बहुवचन नास्ति । झिपर इति ॥ न प्रयुज्यत इति शेष । अस्मिन् पक्षे लिङादिष्वपि बहुवचन नास्तीति भावः । तत्र लिटि अकिति लिट्यभ्यासस्य’ इति सम्प्रसारणम्। उवाच । किति तु 'वचिस्वपि' इति सम्प्रसारणम् । ऊचतुः । उवचिथ-उवक्थ । उचिव । वक्ता । वक्ष्यति । वक्तु । अवचत् । वच्यादिति ॥ विधिलिङे रूपम् । आशीर्लिङि 'वचिस्वपि’ इति सम्प्रसारण मत्वा आह । उच्यादिति । लुडि 'अस्यति वक्ति' इति च्लेरडि ‘वच उम्' इति भावः । विद ज्ञाने इति ॥ अनिट्सु लुग्विकरणस्याग्रहणात् अय सेट्। विदो लटो वा॥ 'परस्मैपदानां णलतुस्' इत्यादिसूत्रमनुवर्तते । विद इति पञ्चमी । तदाह । वेत्तिर्लटः इति ॥ विन्दतिविद्यत्योस्तु शेन श्यना च