आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयुः-अयान । यायात् ।यायाताम् । यायास्ताम् । अयासीत् | वा १०५० गतिगन्धनयोः । गन्धनं सूचनम् | भा १०५१ दीप्तौ । ष्णा १०५२ शौचे । श्रा १०५३ पाके । द्रा १०५४ कुत्सायाम् गतौ । प्सा १०५५ भक्षणे । पा १०५६ रक्षणे । पायास्ताम् । अपासीत् । रा १०५७ दाने । ला १०५८ आदाने । 'द्वावपि दाने' इति चन्द्रः । दाप् १०५९ लवने । प्रणिदाति-प्रनिदाति । दायास्ताम् । अदासीत् |ख्या १०६० प्रकथने । अयं सार्वधातुकमात्रविषयः । सस्थानत्वं नमः ख्यात्रे (वा १५९१) इति वार्तिकं तद्भाष्यञ्चेह लिङ्गम् । 'सस्थानो जिह्वामूलीयः । स नेति ख्याञादेशस्य ख्शादित्वे प्रयोजनमित्यर्थः ।
इति अत इति चानुवर्तते । तदाह। आादन्तादिति ॥ जुस् वेति ॥ शाकटायनग्रहणाद्विकल्पलाभ इति भावः । एवकारस्तु 'लिट् च' 'लिङाशिषि' इत्युत्तरार्थ इति भाष्ये स्पष्टम् । नच 'लोटो लङ्वत्’ इत्यतिदेशात् यान्तु इत्यत्रापि जुस्विकल्प शङ्क्यः । 'नित्य डित' इत्यतो डित इत्यनुवृत्त्यैव सिद्धेर्लड्ग्रहणस्य लड्वद्भावमादाय प्रवृत्तिनिवारणार्थत्वात् । इदमपि भाष्ये स्पष्टम् । अयानिति ॥ जुसभावे रूपम् । अयासीत् । ष्णाधातु षोपदेशः । नस्य ष्टुत्वे णत्वनिर्देश. । स्नाति । स्नायात्- स्नेयात् । पा रक्षणे । 'एर्लिङि' इति सूत्रे, गातिस्था इत्यत्र च पिबतेरेव ग्रहणादेत्त्वसिज्लुकौ न । तदाह । पायास्ताम् । अपासीत् इति ॥ दाप् लवने । घुत्वाभावात् ‘शेषे विभाषा' इति णत्वविकल्पम्मत्वा आह। प्रणिदाति-प्रनिदातीति।। घुत्वाभावादाशीर्लिङि लुङिच ‘घुमास्था’ इति ईत्त्वन्नेति मत्वा आह । दायास्तामिति । अदासीदिति च। ख्या प्रकथने । अयं सार्वधातुकमात्रविषयः इति ॥ मात्रशब्दोऽवधारणे । सार्वधातुक एवास्य ख्याधातो प्रयोग न त्वार्धधातुके इत्यर्थः । कुत इत्यत आह । सस्थानत्वमिति ॥ चक्षिडः ख्याञिति सूत्रे ख्यास्थाने ‘ख्शाञ्' इति वक्तव्यम् । अस्य शकारस्य पूर्वत्रासिद्धमित्यधिकारे यकारो वक्तव्य इत्युक्त्त्वा प्रयोजन सौप्रख्ये वुञ्विधिरित्युपक्रम्य सस्थानत्वं नम ख्यात्रे इत्युक्त वार्तिके । तत्र नञमध्याहृत्य नम ख्यात्रे इति सस्थानत्व न भवतीति व्याख्यात भाष्ये । तादिद वार्तिक भाष्यञ्च ख्याधातोरस्य सार्वधातुके एव प्रयोग इत्यत्र ज्ञापकमित्यर्थ । तत्र सस्थानपद व्याचष्टे । सस्थानो जिह्वामूलीयः इति ॥ प्राचीनाचार्यसमयादिति भाव । स नेति ॥ सः जिह्वामूलीय नम ख्यात्रे इत्यत्र न भवतीत्येतत् स्थाञादेशस्य ख्शादित्वविधौ शस्य यत्वविधौ च प्रयोजनमित्यर्थ । ख्शादित्वे इति ॥ यत्वविधावित्यस्याप्युपलक्षणम्॥ शकारस्थानिकयत्वस्यासिद्धत्वात् ‘शर्परे विसर्जनीयः' इति विसर्जनीय इष्टस्सिध्द्यति । जिह्वामूलीयस्त्वनिष्टो न भवतीति भाष्यवार्तिकहृदयम् । ख्याधातोरस्यार्धधातुकेऽपि प्रयोगसत्वे तु तृजन्ते ख्यातृशब्दे यकारस्य शकारस्थानिकत्वाभावात् असिद्धत्वाभावात् ‘शर्परे विसर्जनीय.’ इत्यस्याप्रवृत्तौ ‘कुप्वो' इति जिह्वामूलीयो दुर्वारस्स्यात्। ततश्चार्धधातुके सर्वत्र न ख्याधातोः प्रयोग इति विज्ञायते। ज्ञापकस्य सामान्यापेक्षत्वादिति भावः सम्पूर्वस्येति ॥