सत्तायाम् । विद्यते । वेत्ता । बुध ११७३ अवगमने । बुध्यते । बुबुधे । बोद्धा । भोत्स्यते । भुत्सीष्ट । अबोधि-अबुद्ध । अभुत्साताम् । युध ११७४ सम्प्रहारे । युध्यते । युयुधे । योद्धा । अयुद्ध । कथं 'युध्यति' इति युधमिच्छतीति क्यच् । 'अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्' (प ९७) इति वा । अनो रुध ११७५ कामे । अनुरुध्यते । अण ११७६ प्राणने । अण्यते । आणे । अणिता । 'अन' इति दन्त्यान्तोऽयमित्येके । मन ११७७ ज्ञाने । मन्यते । मेने । मन्ता । युज ११७८ समाधौ । समाधिश्चित्तवृत्तिनिरोध: । अकर्मकः । युज्यते । योक्ता । सृज ११७९ विसर्गे । अकर्मकः । संसृज्यते सरसिजैररुणांशुभित्रै: । ससृजिषे । स्रष्टा । स्रक्ष्यते । 'लिङ्-सिचौ–’ (सू २३००) इति कित्त्वान्न गुणो नाप्यम् । सृक्षीष्ट । असृष्ट ।
लुक्’ इति तशब्दस्य लोपः ।‘नेर्गद’ इति णत्वमिति भाव । 'विद सत्तायाम्' वेत्तेति ॥ अनिडिति भाव. । लिटि क्रादिनियमादिट् । एव बुधधातुरपि । बोद्धेति ॥ तासि 'झपस्तथोः' इति तकारस्य धकारः । भोत्स्यते इति ॥ ‘एकाच.’ इति भष् । भुत्सीष्टेति ॥ 'लिड्सिचौ' इति कित्त्वम् । 'दीपजन' इति चिण्विकल्प मत्वा आह । अबोधि-अबुद्धेति । कथं युध्द्यतीति ॥ आत्मनेपदित्वादिति भाव । समाधत्ते । युधमिति ॥ युध् शब्दः भावक्विबन्तः । युधमिच्छतीत्यर्थे 'सुप आत्मन:’ इति क्यजन्तात् परस्मैपदमित्यर्थः । अनुदात्तेत्त्वप्रयुत्तमात्मनेपदमनित्यमिति समाधानं त्वनुचितम् । तस्य भाष्यादृष्टत्वेन अप्रामाणिकत्वात् । अत एव 'व्यत्ययो बहुळम्' इति सूत्रभाष्ये प्रतीपमन्य ऊर्मिर्युध्द्यतीत्यत्र व्यत्ययेन परस्मैपदमित्येव समाहितम् । अनो रुध कामे इति ॥ अनु इत्युपसर्गात्पर. रुधधातुः कामे वर्तते इत्यर्थः । युज समाधौ । अनिट् । अकर्मकः इति ॥ चित्तवृत्तेर्धीत्वर्थान्तर्भावादिति भावः । अर्थान्तरे तु सकर्मकोऽपि भवति । सृजियुज्योः सकर्मकयोः कर्मवद्भा व इति कर्मवत्सूत्रवार्तिकात् । एतच्च कर्मकर्तृप्रक्रियाया स्पष्टीभविष्यति । सृज विसर्गे इति ॥ अनिट् । विसर्गस्सम्बन्धः । उपसर्गवशात् । तदाह । अकर्मकः इति । संसृज्यते इति ॥ अरुणांशुभित्रैः अरुणकिरणविकसितै. सरसिजैः कमलै. संसृज्यते सम्बध्नातीत्यर्थः । कमलिनीति शेष: । कर्तरि लकारोऽयम्, न त्वयङ्कर्मणि लकार, अकर्मकत्वात् । अर्थान्तरे तु सकर्मकोऽयमिति कर्मकर्तृप्रक्रियायां वक्ष्यते । लिट्याह । ससृजिषे इति ॥क्रादिनियमादिडिति भावः । स्रष्टेति ॥ 'सृजिदृशोर्झल्यमकिति' इत्यमागमे ॠकारस्य यणि व्रश्चादिना जस्य षः । ष्टुत्वेन तकारस्य ट इति भावः । स्रक्ष्यते इति ॥ पूर्ववदामि जस्य षत्वे 'षढोः' इति षस्य कत्वे, सस्य षत्व-