पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'
'४२५
बालमनोरमा ।

२७४६ । अभिप्रत्यतिभ्यः क्षिपः । (१-३-८०)

'क्षिप प्रेरणे' । स्वरितेत् । अभिक्षिपति ।

२७४७ । प्राद्वहः । (१-३-८१)

प्रवहति ।

२७४८ । परेर्मृषः । (१-३-८२)

परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति केचित् ।

२७४९ । व्याङ्परिभ्यो रमः । (१-३-८३)

विरमति ।

२७५० । उपाच्च । (१-३-८४)

यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ।


क्षाधीनः कर्मकर्ता तथाविधकर्तर्येव 'अनुपराभ्यां कृञः' परस्मैपदमिति लभ्यते । एवञ्च कर्मकर्तरि नास्य प्रवृत्तिरित्यर्थः । अभिप्रति ॥ परस्मैपदमिति शेषः । स्वरितेदिति ॥ ततश्च कर्तृगामिनि फले आत्मनेपदे प्राप्ते अनेन तत्रापि परस्मैपदमिति भावः । अभिक्षिपतीति ॥ प्रतिक्षिपति अतिक्षिपति इत्यप्युदाहार्यम् । प्राद्वहः ॥ प्रपूर्वाद्वहेः परस्मैपदमित्यर्थः । वहे स्वरितेत्त्वात् कर्पृगामिन्यात्मनेपदे प्राप्ते तत्राप्यनेन परस्मैपदम् । परेर्मृषः ॥ परस्मैपदमिति शेषः । 'मृषस्तितिक्षायाम्' इति दैवादिकस्य स्वरितेत्त्वात् पदद्वये प्राप्ते अयं विधिः । तदाह । परिमृष्यतीति ॥ चौरादिकस्यापि 'आधृषाद्वा' इति णिजभावे स्वरितेत्त्वेऽपि परस्मैपदमेव परिमर्षतीति । भौवादिकस्य त्विति ॥ 'मृषु सहने, सेचने च' इति भौवादिकस्य तु परस्मैपदित्वात् परिमर्षतीत्येव रूप सिद्धम् । अतोऽस्मिन् सूत्रे तस्य न ग्रहणमिति भावः । इहेति ॥ परेरिति योगो विभज्यते । वह इत्यनुवर्तते । परेर्वहः परस्मैपदमित्यर्थः । परिवहति । मृष इति योगान्तरम् । तत्र परेः इत्यनुवर्तते परेः मृषः परस्मैपदमित्युक्तोर्थ इति केचिदाहुरित्यर्थ. । भाष्ये त्वय योगविभागो न दृश्यते । व्याङ्परिभ्यो रमः ॥ परस्मैपदमिति शेषः । रमेरनुदात्तेत्वाद्विधिरयम् । विरमतीति ॥ आरमति, परिरमति , इत्यप्युदाहार्यम् । उपाच्च ॥ उपपूर्वादपि रमेः परस्मैपदमित्यर्थः । उत्तरसूत्रे उपादित्यस्यैवानुवृत्तये व्याङ्पर्युपेभ्यो रमेरिति नोक्तम् । अत्र विरमतीत्यर्थे उपरमतीति नोदाहरणम् । तस्य अकर्मकतया उत्तरसूत्रेण परस्मैपदविकल्पविधानात् । अतस्सकर्मकमुदाहरति । यज्ञदत्तमुपरमतीति ॥ ननु विरामार्थकत्वात् कथं सकर्मकतेत्यत आह । उपरमयतीत्यर्थः इति ॥ ननु णिजभावात् कथमयमर्थो लभ्यते इत्यत आह । अन्तर्भावितण्यर्थोऽयमिति ॥ धातूनामनेकार्थत्वादिति भावः ।