सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु ।

॥ अथ तिङन्तपरस्मैपदप्रकरणम् ॥

'शेषात्कर्तरि परस्मैपदम्' (२१५९) अत्ति ।

२७४५ । अनुपराभ्यां कृञः । (१-३-७९)

कृर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् । अनुकरोति । पराकरोति । कर्तरीत्येव । भावकर्मणोर्मा भूत् । न चैवमपि कर्मकर्तरि प्रसङ्गः । कार्यातिदेशपक्षस्य मुख्यतया तत्र 'कर्मवत्कर्मणा--' (सू २७६६) इत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशपक्षे तु 'कर्तरि शप्' (सू २१६७) इत्यतः 'शेषात् –' (सू २१५९) इत्यतश्च कर्तृग्रहणद्वयमनुवर्त्य कर्तैव यः कर्ता न तु कर्मकर्ता तत्रेति व्याख्येयम् ।


अथ परस्मैपदव्यवस्थान्निरूपयितुमुपक्रमते ॥ शेषात्कर्तरीति ॥ अनुपराभ्यां कृञः ॥ परस्मैपदमिति शेष. । ननु 'स्वरितञित.' इत्यात्मनेपदस्य कर्तृगामिन्येव फले विधानादकर्तृगामिनि फले 'शेषात्कर्तरि' इति परस्मैपदस्य सिद्धत्वात् किमर्थमिदमित्यत आह । कर्तृगेचेति । गन्धनादाविति ॥ गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु इत्यर्थः । मा भूदिति ॥ भावे कर्मणि लकारस्य कर्तृगे फले परस्मैपदनिवृत्त्यर्थं कर्तरीत्यस्यानुवृत्तिरिति भाव । ननु कर्तरीत्यस्यानुवृत्तावपि अनुक्रियते शब्द स्वयमेवेत्यत्र कर्मकर्तरि परस्मैपदन्दुर्वारमित्याशङ्क्य परिहरति । नचेति ॥ एवमपि कर्तरीत्यस्यानुवृत्तावपि कर्मकर्तरि आत्मनेपदस्य प्रसङ्गो न शङ्क्य इत्यर्थः । कुत इत्यत आह । कार्यातिदेशेति ॥ तत्र कर्मकर्तरि 'कर्मवत्कर्मणा तुल्यक्रिय' इत्यात्मनेपदेन परेणास्य परस्मैपदस्य बाधादित्यन्वयः । ननु कर्मणि यच्छास्त्र तत् 'कर्मवत्कर्मणा' इति कर्मकर्तर्यतिदिश्यते । तथा चात्र कर्मकर्तरि 'भावकर्मणो.' इत्यात्मनेपदशास्त्रमिह प्राप्तम् । तस्य च परत्वाभावात् 'अनुपराभ्यां कृञः' इत्यनेन कथं बाधः स्यादित्यत आह । कार्यातिदेशपक्षस्य मुख्यतयेति ॥ शास्त्रातिदेशस्य कार्यातिदेशार्थतया कार्यातिदेशस्य मुख्यत्वम् । ततश्च कर्मवत् कर्मणेत्यनेन कर्मणि विहितमात्मनेपद कर्मकर्तरि विधीयते । तस्य च परत्वात्तेनात्मनेपदेन 'अनुपराभ्याम्' इति परस्मैपदङ्कर्मकर्तरि बाधमर्हतीति भावः । 'कर्मवत्कर्मणा' इत्यत्र शास्त्रातिदेशमभ्युपगम्य आह । शास्त्रातिदेशपक्षे त्विति ॥ 'अनुपराभ्यां कृञः' इत्यत्र 'कर्तरि कर्मव्यतिहारे' इत्यस्मादेकङ्कर्तृग्रहणमनुवर्तते । तथा 'शेषात् कर्तरि परस्मैपदम्' इत्यस्मात् द्वितीयं कर्तृग्रहणमनुवर्तते । तथा च स्वभावत एव यः कर्ता, नतु विव-