पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४२३
बालमनोरमा ।

२७४४ । विभाषोपपदेन प्रतीयमाने । (१-३-७७)

'स्वरितञितः' इत्यादिपञ्चसूत्र्या यदात्मनेपदं विहितं तत्समीपोच्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात् । स्वं यज्ञं यजति-यजते वा । स्वं कटं करोति-कुरुते वा । स्वं पुत्रमपवदति-अपवदते वा । स्वं यज्ञं कारयति-कारयते वा । स्वं व्रीहिं संयच्छति-संयच्छते वा । स्वां गां जानाति-जानीते वा ।


इत्यत्रान्वित नृप इति प्रथमान्त तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः । विभाषोपपदेन ॥ स्वरितञित इत्यादीति ॥ 'स्वरितञितः कर्त्रभिप्राये क्रियाफले, अपाद्वद, णिचश्च, समुदाङ्भ्यो यमोऽग्रन्थे, अनुपसर्गाज्ज्ञ' इति पञ्चसूत्रीत्यर्थः । समीपोच्चारितम्पदमुपपदम्, नतु 'तत्रोपपद सप्तमीस्थम्' इति सङ्केतितम् । असम्भवात् । तदाह । समीपोच्चारितेन पदेनेति ॥ फलस्य कर्तृगामित्वे नित्यमात्मनेपदे पञ्चसूत्र्या प्राप्ते विभाषेयमिति 'नवेति विभाषा' इति सूत्रे भाष्ये स्पष्टम् । स्वं यज्ञमिति ॥ स्वीयमित्यर्थः । अत्र स्वशब्देनैव फलस्यात्मगामित्वावगमात् 'स्वरितञितः' इति नित्यमात्मनेपदस्यानेन विकल्पः । स्व यज्ञ कारयतीत्यत्र 'णिचश्च' इत्यस्यानेन विकल्पः । स्वं व्रीहिमिति ॥ अत्र 'समुदाड्भ्यो यमः' इत्यस्यानेन विकल्पः । स्वां गामिति ॥ अत्र 'अनुपसर्गाज्ज्ञः' इत्यस्यानेन विकल्पः ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया

बालमनोरमायामात्मनेपदव्यवस्था समाप्ता ।