पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२२
[आत्मनेपद
सिद्धान्तकौमुदीसहिता

२७४० । मिथ्योपपदात्कृञोऽभ्यासे । (१-३-७१)

'णेः' इत्येव । पदं मिथ्या कारयते । स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः । 'मिथ्योपपदात्' किम् । पदं सुष्ठु कारयति । 'अभ्यासे' किम् । सकृत्पदं मिथ्या कारयति । 'स्वरितञितः कर्त्रभिप्राये क्रियाफले' (सू २१५८) । यजते । सुनुते । 'कर्त्रभिप्राये' किम् । ऋत्विजो यजन्ति । सुन्वन्ति ।

२७४१ । अपाद्वदः । (१-३-७३)

न्यायमपवदते । कर्त्रभिप्राये इत्येव । अपवदति । 'णिचश्च' (सू २५६४) । कारयते ।

२७४२ । समुदाङ्भ्यो यमोऽग्रन्थे । (१-३-७५)

'अग्रन्थे' इति च्छेदः । व्रीहीन् संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । 'अग्रन्थे' किम् । उद्यच्छति वेदम् । अधिगन्तुमुद्यमं करोतीत्यर्थः । कर्त्रभिप्राये इत्येव । व्रीहीन् संयच्छति ।

२७४३ । अनुपसर्गाज्ज्ञः । (१-३-७६)

गां जानीते । 'अनुपसर्गात्' किम् । 'स्वर्गं लोकं न प्रजानाति' । कथं तर्हि भट्टिः – 'इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्य' इति । कर्मणि लिट् । नृपेणेति विपरिणामः ।


पदात् ॥ अभ्यासवृत्तेर्मिथ्याशब्दोपपदकात् कृञः आत्मनपदमित्यर्थः । इत ऊर्ध्व णेरिति निवृत्तम् । अपाद्वदः ॥ अपपूर्वाद्वदधातोरात्मनेपदमित्यर्थः । न्यायमपवदते इति ॥ वदनेन निरस्यतीत्यर्थः । 'किमिह वचनन्न कुर्यान्नास्ति वचनस्यातिभारः' इति न्यायात् । समुदाङ्भ्यो ॥ सम् उत् आङ् एतत्पूर्वात् अग्रन्थविषयकात् यमेरात्मनेपदमित्यर्थः । व्रीहीन् संयच्छते इति ॥ सङ्गृह्णातीत्यर्थः । भारमुद्यच्छते इति ॥ उद्गृह्णातीत्यर्थः । वस्त्रमायच्छते इति ॥ कट्यादौ निबध्नातीत्यर्थः । कर्त्रभिप्राये इत्येवेति ॥ व्रीहीन् संयच्छतीति ॥ परार्थं सङ्गृह्णातीत्यर्थ. । 'आडो यमहनः' इत्येव सिद्धे आङ्ग्रहण सकर्मकार्थम् । तस्य अकर्मकादेव प्रवृत्तेरिति बोध्द्यम् । अनुपसर्गाज्ज्ञः ॥ अनुपसर्गात् ज्ञाधातोरात्मनेपदमित्यर्थः । 'अकर्मकाच्च' इत्येव सिद्धे सकर्मकार्थमिदम् । तदाह । गाञ्जानीते इति ॥ अनुपूर्वकस्य अनुमत्यर्थकस्य ज्ञाधातोरुपसर्गपूर्वकतया प्रकृतसूत्रस्याप्रवृत्तेः सकर्मकतया 'अकर्मकाच्च' इत्यस्याप्यप्रवृत्तेः । अनुजज्ञे इति ॥ कथमात्मनेपदमित्यर्थः । समाधत्ते । कर्मणि लिडिति ॥ तथाच 'भावकर्मणोः' इत्यात्मनेपदमिति भावः । सुतस्य गमनमनुज्ञातमित्यर्थः फलति । नन्वेव सति नृप इति प्रथमान्तस्य कथमिहान्वय इत्यत आह । नृपेणेति विपरिणामः इति ॥ अवालुलोचे