पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
[जुहोत्यादि
सिद्धान्तकौमुदीसहिता

२४९३ । अर्तिपिपर्त्योश्च । (७-४-७७)

अभ्यासस्येकारोऽन्तादेशः स्यात् श्लौ ।

२४९४ उदोष्ठ्यपूर्वस्य । (७-१-१०२)

अङ्गावयवौष्ठ्यपूर्वो य ऋत् तदन्तस्याङ्गस्य उत्स्यात् । गुणवृद्धी परत्वादिमं बाधेते । पिपर्ति । उत्त्वं । रपरत्वं । 'हलि च' (सू ३५४) इति दीर्घः । पिपूर्तः । पिपुरति । पपार । किति लिटि 'ऋच्छत्यॄताम्' । (सू २३८३) इति गुणे प्राप्ते |

२४९५ । शॄदॄप्रां ह्रस्वो वा । (७-४-१२)

एषां किति लिटि ह्रस्वो वा स्यात् । पक्षे गुणः । पप्रतुः । पप्रुः ।


अह्रेष्यत् । पॄधातु सेट् । लटस्तिपि शप. श्लौ द्वित्वे पॄ पॄ इति स्थिते । अर्तिपिपर्त्योश्च ॥ 'अत्र लोपः' इत्यस्मादभ्यासस्येति 'भृञामित्' इत्यस्मात् इदिति 'निजान्त्रयाणाम्' इत्यतः श्लाविति चानुवर्तते इत्यभिप्रेत्य शेषम्पूरयति । अभ्यासस्येत्यादिना ॥ तथाच अभ्यासेॠकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य गुणे रपरत्वे पिपर्तीति वक्ष्यति । तत्र उत्तरखण्डे ॠकारस्य उत्त्वं शङ्कितुमाह । उदोष्ठ्य ॥ 'ॠत इद्धातोः' इत्यत ॠत इत्यनुवर्तते । अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्तते । एकमवयवषष्ठ्यन्त ओष्ठ्यस्य विशेषणम् । अपरन्तु ॠता विशेष्यते । तदन्तविधिः । तदाह । अङ्गावयवौष्ठ्य इत्यादिना ॥ अङ्गावयवेति किम् । समीर्णः । ‘ॠ गतौ' क्र्यादि. तस्मात्सम्पूर्वात् त्क्तप्रत्यये 'ॠत इद्धातोः' इति इत्त्वे रपरत्वे 'हलि च' इति दीर्घे 'श्र्युकः किति' इति इण्निषेधे 'रदाभ्याम्' इति निष्ठानत्वे तस्य णत्वे समीर्ण इति रूपम् । तत्र मकारात्मकौष्ठ्यपूर्वत्वादित्त्व बाधित्वा उत्त्वं स्यात् । अङ्गावयवेत्युक्तौ तु मकारस्य ओष्ठ्यस्य अङ्गावयवत्वाभावादुत्त्वन्न भवति । तथाच प्रकृतेऽपि पॄतीत्यत्र इदमुत्त्वं स्यादिति शङ्का प्राप्ता ताम्परिहरति । गुणवृद्धी इति ॥ इममिति ॥ उत्त्वविधिमित्यर्थः । पिपर्तीति ॥ उत्त्वात्परत्वाद्गुण इति भावः । पिपॄ तस इति स्थिते आह । उत्त्वमिति ॥ डित्त्वेन गुणाभावात् उदोष्ठ्येत्युत्त्वमिति भावः । पिपुरतीति ॥ अभ्यस्तत्वाददादेशे डित्त्वाद्गुणाभावादुत्त्वमिति भावः । पिपर्षि । पिपूर्थः । पिपर्मि । पिपूर्वः । पिपूर्मः । लिटि णल्याह । पपारेति ॥ उत्त्वात्परत्वाद्वृद्धिरिति भावः । 'अर्तिपिपर्त्योश्च' इत्यभ्यासस्य नेत्त्वम् । तत्र श्लावित्यनुवृत्तेः । प्राते इति ॥ गुणे नित्यम्प्राप्ते इत्यर्थः । शॄदॄप्राम् ॥ शॄ दॄ पॄ एषान्द्वन्द्वः । लिटीति ॥ 'दयतेर्दिगि लिटि' इत्यतः तदनुवृत्तेरिति भावः । यद्यपि पूर्वसूत्रेषु क्वापि कितीति न दृष्ट तथापि अस्य ‘ऋच्छत्यॄताम्’ इति गुणापवादत्वात् गुणस्य च तस्य किदर्थत्वात्कितीत्युक्तम् । पप्रतुरिति ॥ पपॄ अतुस् इति स्थिते ॠकारस्य ह्रस्वे तस्य यणिति भावः । गुणपक्षे आह । पपरतुरिति ॥ गुण एव तु न विकल्पितः । गुणाभावे 'वार्णादाङ्गं बलीयः' इति यणम्बाधित्वा 'उदोष्ठ्य' इत्युत्त्वप्रसङ्गात् । पपरिथ ।