२७१३ । आङ उद्गमने । (१-३-४०)
आक्रमते सूर्यः । उदयते इत्यर्थः । 'ज्योतिरुद्गमने इति वाच्यम्' (वा ९२१) । नेह । आक्रामति धूमो हर्म्यतलात् ।
२७१४ । वेः पादविहरणे । (१-३-४१)
साधु विक्रमते वाजी । 'पादविहरणे' किम् । विक्रामति सन्धिः । द्विधा भवति । स्फुटतीत्यर्थः ।
२७१५ । प्रोपाभ्यां समर्थाभ्याम् । (१-३-४२)
समर्थौ तुल्यार्थौ । शकन्ध्वादित्वात्पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । 'समर्थाभ्याम्' किम् । प्रक्रामति । गच्छतीत्यर्थः । उपक्रामति । आगच्छतीत्यर्थः ।
२७१६ । अनुपसर्गाद्वा । (१-३-४३)
क्रामति-क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ।
२७१७ । अपह्नवे ज्ञः । (१-३-४४)
शतमपजानीते । अपलपतीत्यर्थः ।
२७१८ । अकर्मकाच्च । (१-३-४५)
आङ उद्गमने ॥ आङ परस्मादुद्गमनवृत्तेः क्रमः आत्मनेपदमित्यर्थ । आक्रमते सूर्यः इति ॥ आङ्पूर्व. क्रमिरुद्गमनार्थक.। तदाह । उदयते इत्यर्थः इति ॥ उपसर्गवशादिति भावः । वेः पादविहरणे ॥ पादविहरण पादविक्षेपः । तद्वृत्तेर्विपूर्वात् क्रमेरात्मनेपदमित्यर्थ । साधु विक्रमते वाजीति ॥ सम्यक्पदानि विक्षिपतीत्यर्थः । प्रोपाभ्यां ॥ क्रम आत्मनेपदमिति शेषः । समौ अर्थौ ययोरिति विग्रह इत्याह । समर्थौ तुल्यार्थाविति ॥ सवर्णदीर्घमाशङ्क्य आह । शकन्ध्वादित्वादिति ॥ ननु प्रक्रमते इत्यत्र अतिशयितपदविक्षेपार्थप्रतीतेः उपक्रमते इत्यत्र समीपे पदानि विक्षिपतीति प्रतीते कथमनयोस्तुल्यार्थकत्वमित्यत आह । प्रारम्भेऽनयोस्तुल्यार्थतेति ॥ तथाच आरम्भार्थकाभ्यामिति फलितमिति भावः । अनुपसर्गाद्वा ॥ क्रम आत्मनेपदमिति शेष । अप्राप्तविभाषेयमिति ॥ अनुपसर्गात् क्रमे आत्मनेपदस्य कदाप्यप्राप्तेरिति भावः । वृत्त्यादाविति ॥ वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधान्नित्यमेवेत्यर्थः । अपह्नवे ज्ञः ॥ अपह्नवः अपलाप. । तद्वृत्तेर्ज्ञाधातोरात्मनेपदमित्यर्थः । अकर्मकाच्च ॥ ज्ञः आत्मनेपदमिति शेषः । सर्पिषो जानीते इति ॥ अत्र ज्ञा-