पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४०५
बालमनोरमा ।

वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते । संविदते । सम्पृच्छते । संस्वरते । 'अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम्' (वा ९२६) । अर्तीति द्वयोर्ग्रहणम् । अङ्विधौ त्वियर्तेरेवेत्युक्तम् । मा समृत; मा समृषाताम्, मा समृषत इति, समार्त, समार्षताम्, समार्षत इति च भ्वादेः । इयर्तेस्तु मा समरत, मा समरेताम्, मा समरन्त इति, समारत, समारेताम्, समारन्त इति च । संशृणुते । सम्पश्यते । अकर्मकादित्येव । अत एव 'रक्षांसीति पुरापि संशृणुमहे' इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा 'इति कथयद्भयः' इति । अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् । शृणु ।

धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् ।

प्रसिद्धेरविवक्षात: कर्मणोऽकर्मिका क्रिया ।


भ्यस्तात्' इत्यतः आदित्यनुवृत्त षष्ठ्या विपरिणम्यते । शीडो रुडित्यतो रुडिति च । तदाह । वेत्तेः परस्येत्यादिना ॥ अर्तिश्रुदृशिभ्यः इति ॥ सम्पूर्वेभ्यस्तडिति शेष । द्वयोरिति ॥ भौवादिकस्य इयर्तेश्चेत्यर्थः । अङ्विधौ त्विति ॥ 'सर्त्तिशास्त्यर्त्तिभ्यश्च' इत्यत्रेत्यर्थ. । मा समृतेति ॥ 'उश्च' इति सिच कित्त्वान्न गुण. । 'ह्रस्वादङ्गात्' इति सिचो लोप । माड्योगे मासमृतेत्यादि । माड्योगाभावे तु समार्तेत्यादि । इत्येवम्भौवादिकस्य ॠधातो. रूपमित्यर्थः । माड्योगादाडभाव. । अथ माड्योगाभावे आडागमे उदाहरति । समार्तेति ॥ सम् आ ॠ स् त इति स्थिते 'उश्च' इति कित्त्वाद्गुणनिषेधे 'आटश्च' इति वृद्धिम्बाधित्वा परत्वात् ह्रस्वादङ्गादिति सिचो लोपे 'आटश्च' इति ॠकारस्य वृद्धौ रपरत्वे रूपम् । नच सिज्लोपस्यासिद्धत्वादाटश्चेति वृद्धौ कृताया ह्रस्वादङ्गादिति सिज्लोपस्याप्रवृत्त्या समार्ष्टेत्येवोचितमिति वाच्यम् । 'सिज्लोप एकादेशे सिद्धो वाच्य.' इति वचनेन पूर्व सिज्लोपे पश्चादाटश्चेति वृद्धे. प्रवृत्तिसम्भवादित्यलम् । इयर्तेस्त्विति ॥ श्लुविकरण ॠधातोरित्यर्थः । मा समरतेति ॥ 'सर्तिशास्त्यर्ति' इत्यड् । तत्र इयर्तेर्ग्रहणादिति भाव । 'ॠदृशोऽडि' इति गुणः । समारतेति ॥ 'आटश्च' इति वृद्धिः । इति चेति ॥ इयर्ते: रूपमित्यन्वयः । तदेवमर्तिश्रुदृशिभ्य इत्यत्र अर्तिप्रपञ्चमुक्त्वा श्नुधातोरुदाहरति । संशृणुते इति ॥ दृशेरुदाहरति । सम्पश्यते इति ॥ अकर्मकादित्येवेति ॥ 'समो गम्यृच्छिभ्याम्' इत्यत्र अकर्मकादित्यनुवृत्तेरभ्युपगतत्वेन तत्रोपसङ्ख्यातवार्तिकेऽस्मिन् तदनुवृत्तेर्युक्तत्वादिति भाव । अत एवेति ॥ प्रामादिक इत्याहुरित्यन्वय. । सकर्मकत्वेनात्मनेपदासम्भवादिति भाव । अध्द्याहारो वेति ॥ इति कथयभ्द्य इत्यध्द्याहारो वेत्यन्वय । तथाच रक्षासीति कथयभ्द्य: पुरा सशृणुमहे इत्यत्र कथन एव रक्षसामन्वितत्वात् श्रुवः अकर्मकत्वादात्मनेपदन्निर्बाधमिति भाव. । धातोरिति ॥ धातोरर्थान्तरे वृत्तेरिति धात्वर्थेनोपसङ्ग्रहादिति प्रसिद्धेरिति अविवक्षात' इति चत्वारि वाक्यानि । अकर्मिका क्रियेति सर्वत्रान्वेति । कर्मण इति तु द्वितीयादिषु वाक्येष्व-