पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०४
[आत्मनेपद
सिद्धान्तकौमुदीसहिता

२६९७ । हनः सिच् । (१-२-१४)

कित्स्यात् । अनुनासिकलोपः । आहत । आहसाताम् । आहसत ।

२६९८ । यमो गन्धने । (१-२-१५)

सिच्कित्स्यात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । 'गन्धने' किम् । उदायंस्त पादम् । आकृष्टवानित्यर्थः ।

२६९९ । समो गम्यृच्छिभ्याम् । (१-३-२९)

'अकर्मकाभ्याम्' इत्येव सङ्गच्छते ।

२७०० । वा गमः । (१-२-१३)

गमः परौ झलादी लिङ्सिचौ वा कितौ स्तः । सङ्गसीष्ट-सङ्गंसीष्ट । समगत-समगंस्त । समृच्छते । समृच्छिष्यते । 'अकर्मकाभ्याम्' किम् । ग्रामं सङ्गच्छति 'विदिप्रच्छिस्वरतीनामुपसंख्यानम्' (वा ९१८) । वेत्तेरेव ग्रहणम् । संवित्ते । संविदाते ।

२७०१ । वेत्तेर्विभाषा । (७-१-७)


विषमविलोचनस्य समीपमेत्य स्वीयमेव वक्षः मल्ल इव वीरावेशादास्फालयाञ्चक्रे इत्यर्थः । तथाच स्वाङ्गकर्मकत्वादात्मनेपद निर्बाधमिति भावः । लुडि आहन् स् त इति स्थिते । हनः सिच् ॥ कित्स्यादिति शेषपूरणम् । 'असयोगाल्लिट्कित्' इत्यत तदनुवृत्तेरिति भावः । हनधातोः परस्सिच कित्स्यादिति फलितम् । अनुनासिकलोपः इति ॥ 'अनुदात्तोपदेश' इति नकारलोप इत्यर्थः । उत् आ यम् स् त इति स्थिते । यमो गन्धने ॥ सिच्कित्स्यादिति शेषपूरणम् । सिच कित्त्वे मकारस्य अनुदात्तोपदेश इति लोपः । समो गम्यृच्छिभ्याम् ॥ आत्मनेपदमिति शेषः । अकर्मकाभ्यामित्येवेति ॥ स्वाङ्गकर्मकाच्चेति तु निवृत्तमिति भावः । सङ्गच्छते इति ॥ सङ्गतम्भवतीत्यर्थः । वा गमः ॥ 'इको झल्' इत्यतो झलिति 'लिड्सिचावात्मनेपदेषु' इत्यतो लिड्सिचाविति 'असयोगाल्लिट्' इत्यत किदिति चानुवर्तते । तदाह । गमः परावित्यादि ॥ समगतेति ॥ लुडि रूपम् । सिच कित्त्वपक्षे 'अनुदात्तोपदेश' इति मकारलोपे 'ह्रस्वादङ्गात्' इति सिचो लुक् । समृच्छते इति ॥ 'ॠच्छ गतीन्द्रियप्रलयमूर्तिभावेषु' इति तौदादिकस्य रूपम् । अत्र तौदादिकस्य ॠच्छतेरेव ग्रहण, नतु ॠच्छादेशस्येति सूचयितुं लृडन्तमप्युदाहरति । समृच्छिष्यते इति ॥ विदिप्रच्छिस्वरतीनामिति ॥ सम इत्यनुवर्तते । सम्पूर्वेभ्यो विदिप्रच्छिस्वरतिभ्य आत्मनेपदमित्यर्थ । वेत्तेरिति ॥ लुग्विकरणस्यैव विदेर्ग्रहणमित्यर्थः । व्याख्यानादिति भावः । वेत्तेर्विभाषा ॥ 'झोऽन्तः' इत्यत. झ इत्यनुवर्तते ॥ 'अद-