पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४०१
बालमनोरमा ।

यद्यपि तङ् प्राप्तस्तथापि 'सुडभावे नेष्यते' इत्याहुः । गजोऽपकिरति । 'आङि नुप्रच्छ्योः' (वा ९०९) । आनुते । आपृच्छते । 'शप उपालम्भे' (वा ९११) । आक्रोशार्थात्स्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे आत्मनेपदं वक्तव्यमित्यर्थः । कृष्णाय शपते ।

२६८९ । समवप्रविभ्यः स्थः । (१-३-२२)

संतिष्ठते । 'स्थाघ्वोरिच्च' (सू २३८९) । समस्थित । समस्थिषाताम् । समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्ठते । 'आङः प्रतिज्ञायामुपसंख्यानम्' (वा ९१२) । शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीते इत्यर्थः ।

२६९० । प्रकाशनस्थेयाख्ययोश्च । (१-३-२३)

गोपी कृष्णाय तिष्ठते । आशयं प्रकाशयतीत्यर्थः । 'संशय्य कर्णादिषु तिष्ठते यः' । कर्णादीन्निर्णेतृत्वेनाश्रयतीत्यर्थः ।

२६९१ । उदोऽनूर्ध्वकर्मणि । (१-३-२४)


हर्षजीविकाकुलायकरणान्येव विवक्षितानि न त्वालेखनमपि तदा तडेव स्यान्न तु सुट् इत्यत आह । हर्षादिमात्रेत्यादि ॥ तथापीति ॥ आलेखनाभावेऽपीत्यर्थः । नेष्यते इति ॥ किरतेर्हर्षजीविकेत्यात्मनेपदविधौ ससुट्कानामेव भाष्ये उदाहरणादिति भाव । भाष्यस्थान्युदाहरणान्यालेखनविषयान्येव भविष्यन्तीत्यस्वरस सूचयति । आहुरिति ॥ गजोऽपकिरतीति ॥ स्वभावाख्यानमत्रेति भावः । 'आडि नुप्रच्छ्यो' इति वार्तिकम् । आनुते इति ॥ सृगाल इति भाष्यम् । सृगाल: उत्कण्ठापूर्वक शब्दङ्करोतीत्यर्थ इति कैयटः । ननु 'शप आक्रोशे' इत्यस्य स्वरितेत्त्वादेव सिद्धे 'शप उपालम्भने' इत्यात्मनेपदविधिर्व्यर्थ इत्यत आह । आक्रोशार्थादिति ॥ 'शप आक्रोशे' इति स्वरितेत. कर्तृगामिन्येव फले आत्मनेपद प्राप्तम् । अकर्तृगेऽपि फले शपथात्मकनिन्दाविशेषे विद्यमानात् तस्मात् शपधातोरात्मनेपदार्थमिदमित्यर्थः । कृष्णाय शपते इति ॥ 'श्लाघह्नुड्स्थाशपाम्' इति सम्प्रदानत्वाच्चतुर्थी । समवप्रविभ्यः स्थः ॥ स्थ इति पञ्चमी । सम् अव प्र वि एभ्यः परस्मात् स्थाधातोरात्मनेपदमित्यर्थः । सन्तिष्ठते इति ॥ समाप्तम्भवतीत्यर्थे । प्रकाशन ॥ प्रकाशन स्वाभिप्रायाविष्करणम् । स्थेयः विवादपदनिर्णेता । तिष्ठति विश्राम्यति विवादपदनिर्णयोऽस्मिन्नित्यर्थे बाहुलके अधिकरणे 'अचोयत्' इति यत् इति व्युत्पत्तेः । 'स्थेयो विवादस्थानस्य निर्णेतरि पुरोहिते' इति मेदिनी । इह तु विवादपदनिर्णेतृत्वेनाध्यवसायो विवक्षित । आख्या अभिधानम् । प्रकाशनाख्याया स्थेयाख्यायाञ्च वर्तमानात् स्थाधातोरात्मनेपदमित्यर्थ । प्रकाशने उदाहरति । गोपी कृष्णाय तिष्ठते इति ॥ 'श्लाघह्नुड्स्थाशपाम्' इति सम्प्रदानत्वाच्चतुर्थी । स्थेये उदाहरति । संशय्येति ॥ कर्णादिष्विति विषयसप्तमी । फलितमाह । कर्णादीनिति ॥ उदोऽनूर्ध्वकर्मणि ॥ ऊर्ध्व-