पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३९९
बालमनोरमा ।

२६८६ । आङो दोऽनास्यविहरणे । (१-३-२०)

आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेपदं स्यात् । विद्यामादत्ते | 'अनास्य-' इति किम् । मुखं व्याददाति । आस्यग्रहणमविवक्षितम् । विपादिकां व्याददाति । पादस्फोटो विपादिका । नदी कूलं व्याददाति । 'पराङ्गकर्मकान्न निषेधः' (वा ९०३) । व्याददते पिपीलिकाः पतङ्गस्य मुखम् ।

२६८७ । क्रीडोऽनुसंपरिभ्यश्च । (१-३-२१)

चादाङः । अनुक्रीडते । संक्रीडते । परिक्रीडते । आक्रीडते । अनोः कर्मप्रवचनीयान्न । उपसर्गेण समा साहचर्यात् । माणवकमनुक्रीडति । तेन सहेत्यर्थः । 'तृतीयार्थे' (सू ५४९) इत्यनोः कर्मप्रवचनीयत्वम् । 'समोऽकूजने' (वा ९०४) । संक्रीडते । कूजने तु संक्रीडति चक्रम् । 'आगमेः क्षमायाम्' (वा ९०५) । ण्यन्तस्येदं ग्रहणम् । आगमयस्व तावत् । मा त्वरिष्ठा इत्यर्थः । 'शिक्षेर्जिज्ञासायाम्' (वा ९०६) । धनुषि शिक्षते । धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः । 'आशिषि नाथः (वा ९१०)


आङो दो ॥ आस्यविहरण मुखविकसनम् । दा इत्यस्य दः इति पञ्चमी । तदाह । ददातेर्मुखविकसनादन्यत्रेति ॥ विद्यामादत्ते इति ॥ गृह्णातीत्यर्थः । दाञो ञित्त्वेऽप्यकर्त्रभिप्रायार्थमिदम् । अविवक्षितमिति ॥ अविहरणे इत्येतावदेव विवक्षितमित्यर्थः । विपादिकां व्याददातीति ॥ क्षारौषधादिना विदारयतीत्यर्थः । अत्र आस्यविहरणाभावेऽपि विकसनसत्वान्नात्मनेपदमिति भावः । नदी कूलं व्याददातीति ॥ भिनत्तीत्यर्थः । अत्रापि विकसनसत्त्वादास्यविहरणाभावेऽपि नात्मनेपदम् । पराङ्गकर्मकान्न निषेधः इति ॥ वार्तिकम् । पतङ्गस्येति ॥ पक्षिणो मुखम्भक्षणाय विकासयन्तीत्यर्थः । क्रीडोऽनु ॥ चादाङः इति ॥ तथाच अनु सम् परि आङ् एभ्यः परस्मात् क्रीडधातोरात्मनेपदमित्यर्थः । 'अनोऽकर्मप्रवचनीयान्न' इति वार्तिकम् । तदिदं न्यायसिद्धमित्याह । उपसर्गेण समेति ॥ 'समोऽकूजने' इति वार्तिकम् । समः परस्मात् अकूजने विद्यमानात् क्रीडेरात्मनेपदमित्यर्थः । कूजने तु संक्रीडति चक्रमिति ॥ कूजतीत्यर्थः । आगमेः क्षमायामिति ॥ आत्मनेपदमिति शेषः । वार्तिकमिदम् । ण्यन्तस्येदं ग्रहणमिति ॥ भाष्ये ण्यन्तस्यैवोदाहरणादिति भावः । आगमयस्व तावदिति ॥ किञ्चित्काल सहस्वेत्यर्थः । आडुपसर्गवशात् गमधातुः क्षमायां वर्तते । 'हन्त्यर्थाश्च' इति चुरादिगणसूत्रेण स्वार्थे णिच् । चुरादेराकृतिगणत्वाद्वा । मा त्वरिष्ठाः इति ॥ फलितार्थकथनम् । 'शिक्षेर्जिज्ञासायाम्' इत्यपि वार्तिकम् । धनुषि शिक्षते इति ॥ वैषयिके आधारे सप्तमी । शकिस्सन्नन्तः । 'सनि मीमा' इति इस् । अभ्यासलोपश्च । तदाह । धनुर्विषये इत्यादि ॥ 'शिक्ष विद्योपादाने' इत्यस्य तु नेह ग्रहणम् । अनुदात्तेत्त्वादेव सिद्धेरिति भावः ।