पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९८
[आत्मनेपद
सिद्धान्तकौमुदीसहिता

व्यत्यास्त । व्यतिषीत । व्यतिराते । व्यतिराते । व्यतिराते । व्यतिभाते । व्यतिभाते । व्यतिभाते । व्यतिबभे ।

२६८१ । न गतिहिंसार्थेभ्यः । (१-३-१५)

व्यतिगच्छन्ति । व्यतिघ्नन्ति । 'प्रतिषेधे हसादीनामुपसंख्यानम्' (वा ८९८) हसादयो हसप्रकाराः शब्दक्रियाः । व्यतिहसन्ति । व्यतिजल्पन्ति । 'हरतेरप्रतिषेधः' (वा ८९९) । संप्रहरन्ते राजानः ।

२६८२ । इतरेतरान्योऽन्योपपदाच्च । (१-३-१६)

'परस्परोपपदाच्चेति वक्तव्यम्' (वा ९००) । इतरेतरस्यान्योऽन्यस्य परस्परस्य वा व्यतिलुनन्ति ।

२६८३ । नेर्विशः । (१-३-१७)

निविशते ।

२६८४ । परिव्यवेभ्यः क्रियः । (१-३-१८)

अकर्त्रभिप्रायार्थमिदम् । परिक्रीणीते । विक्रीणीते । अवक्रीणीते ।

२६८५ । विपराभ्यां जेः । (१-३-१९)

विजयते । पराजयते ।


त्यसै इति ॥ लोडुत्तमपुरुषैकवचनम् । व्यत्यास्तेति ॥ लडि रूपम् । व्यतिषीतेति ॥ लिडि रूपम् । व्यतिराते इति ॥ लटि प्रथमपुरुषैकद्विबहुवचनेषु समानमेव रूपम् । व्यतिभाते इति ॥ भाधातो रूपम् । व्यतिबभे इति ॥ लिटि रूपम् । न गतिहिंसार्थेभ्यः॥ कर्मव्यतिहारे आत्मनेपदन्नेत्यर्थः । हसादिगणस्य अदर्शनादाह । हसप्रकाराः इति ॥ उपसर्गमनपेक्ष्य ये गतिहिंसयोर्वर्तन्ते तेषामेव ग्रहणलाभाय अर्थग्रहणम् । हृञ्धातुस्तु उपसर्गबलाद्धिंसायां वर्तते इति न तस्य प्रतिषेध इत्याह । हरतेरप्रतिषेधः इति ॥ अर्थग्रहणलभ्यमिदं वार्तिकम् । इतरेतर ॥ नात्मनेपदमिति शेषः । नेर्विशः ॥ निपूर्वाद्विशः आत्मनेपद स्यादित्यर्थः । नेति निवृत्तम् । यद्यपि न्यविशतेत्यत्र न विशिर्नेः परः । अटा व्यवधानात् । अटो विकरणान्ताङ्गभक्तत्वेन विशधात्ववयवत्वाभावात् । तथापि 'अड्व्यवाये उपसङ्ख्यानम्' इति वार्तिकाद्भवतीति 'शदेः शितः' इत्यत्र भाष्ये स्पष्टम् । परिव्यवेभ्यः ॥ परि वि अव एम्यः परस्मात् क्रीञ्धातोरात्मनेपदामित्यर्थः । ञित्त्वादात्मनेपदसिद्धेः किमर्थमिदमित्यत आह । अकर्त्रभिप्रायार्थमिति ॥ विपराभ्याञ्जेः ॥ वि परा आभ्याम्परस्मात् जिधातोरात्मनेपदमित्यर्थः । विजयते इति ॥ उत्कृष्टो भवतीत्यर्थः । पराजयते इति ॥ निकृष्टो भवतीत्यर्थः ।