पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ अथ तिङन्तात्मनेपदप्रकरणम् ।।

'अनुदात्तङित आत्मनेपदम्' (सू २१५७) । आस्ते । शेते ।

२६७९ । भावकर्मणोः । (१-३-१३)

बभूवे । अनुबभूवे ।

२६८० । कर्तरि कर्मव्यतिहारे । (१-३-१४)

क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः । 'श्नसोरल्लोपः' (सू २४६९) । व्यतिस्ते । व्यतिषाते । व्यतिषते । 'तासस्त्योः--' (सू २१९१) इति सलोपः । व्यतिसे । 'धि च' (सू २२४९) । व्यतिध्वे । 'ह एति' (सू २२५०) । व्यतिहे । व्यत्यसै ।


अथ आत्मनेपदप्रक्रिया निरूप्यन्ते ॥ आत्मनेपदपरस्मैपदव्यवस्थापकानि सूत्राणि प्रथमस्य तृतीयपादे पठितानि । तानि क्रमेण व्याख्यास्यन् व्याख्यातमपि सूत्र पुनः स्मारयति । अनुदात्तङितः इति ॥ आत्मनेपदमित्येतत् 'शेषात्कर्तरि परस्मैपदम्' इत्यतः प्रागनुवर्तते । भावकर्मणोः ॥ भावः भावना क्रियेति पर्याया.। कर्मशब्द कर्मकारके वर्तते । भावे कर्मणि च यो लकारस्तस्यात्मनेपदमित्यर्थः । भावे उदाहरति । बभूवे इति ॥ वृत्ता भवनक्रियेत्यर्थः । कर्मण्युदाहरति । अनुबभूवे इति ॥ आनन्द इति शेषः । आनन्दकर्मिका वृत्ता अनुभोगक्रियेत्यर्थः । कर्तरि कर्म ॥ कर्मव्यतिहारशब्द विवृण्वन्नाह । क्रियाविनिमये द्योत्ये इति ॥ एवञ्च कर्मशब्दः क्रियापरः । व्यतिहारशब्दो विनिमयपर इत्युक्त भवति । अन्यस्येति ॥ शूद्रादियोग्य सस्यादिलवन ब्राह्मण करोतीत्यर्थ । परस्परकरणमपि कर्मव्यतिहार इति कैयटः । सम्प्रहरन्ते राजानः । कर्तृग्रहणम्भावकर्मणोरित्यस्यानुवृत्तिनिवृत्त्यर्थम् । अन्यथा व्यतिलुनीत इत्यत्र न स्यात् । वस्तुतस्तु पृथक् सूत्रारम्भादेव सिद्धे कर्तृग्रहणमुत्तरार्थमिति भाष्ये स्पष्टम् । व्यति अस् ते इति स्थिते आह ।श्नसोरिति ॥ व्यतिस्ते इति ॥ तपसे अयोग्यः शूद्रस्तपस्वी भवतीत्यर्थ । इह 'उपसर्गप्रादुर्भ्याम्' इति न षः । यचपरकत्वाभावादिति भावः । व्यतिषाते इति ॥ इह अच्परकत्वादुपसर्गप्रादुर्भ्यामिति षः । व्यति स से इति स्थिते आह । तासस्त्योरिति ॥ 'उपसर्गप्रादुर्भ्याम्' इति नेह षत्वम् । अस्त्यवयवस्य सकारस्य लुप्तत्वात् । व्यतिषाथे । व्यति स् ध्वे इति स्थिते आह । धि चेति ॥ सलोप इति शेषः । व्यतिस् ए इति स्थिते आह । ह एतीति ॥ सकारस्य हकार इति भावः । व्य-