पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९६
सिद्धान्तकौमुदीसहिता

--प्रापयियिषति । उरुं विवारयिषति-वारिरयिषति-वारयियिषति । बाढं सिसाधयिषतीत्यादिरूपत्रयम् । षत्वं तु नास्ति । 'यङ्सन्ण्यन्तात्सन्' । बोभूयिषयिषति । यङ्णिच्सन्नन्ताण्णिच् । बोभूययिषतीत्यादि ।

इति तिङन्तप्रत्ययमालाप्रकरणम्


प्रापयिषतीत्यादि रूपत्रयमित्यर्थ. । उरुमिति ॥ उरुमाख्यातुमाचक्षाणम्प्रेरयितुं वेच्छतीत्यर्थे उरुशब्दादाचष्टे इत्यर्थे णिचि 'प्रियस्थिर' इति वरादेशे उपधावृद्धौ वारि इति ण्यन्तान्सनि इटि णिचो गुणायादेशयोष्षत्वे वारयिषेति सन्नन्तम् । माधवमते वृध्द्यङ्गीकारात् वारि इत्यस्मात् हेतुमण्ण्यन्तात् सनि इटि प्रथमणेर्लोपे षत्वे वारयिषेत्येव रूपम् । तत्र यथेष्टन्नामधातुष्वित्येकैकस्य एकाचो द्वित्वे विवारयिषतीत्यादि रूपत्रयमित्यर्थ । बाढं सिसाधयिषतीति ॥ बाढमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे णिजादि पूर्ववत् । अन्तिकबाढयोरिति साधादेशः । तत्र सकारस्यादेशत्वाभावान्न षत्वम् । तदाह । षत्वन्तु नास्तीति ॥ बोभूयिषयिषतीत्यत्र प्रक्रिया दर्शयति । यङिति ॥ भूधातोरिति शेष । द्वित्वे बोभूयेति स्थितम् । सन्निति ॥ इटि अतो लोपे षत्वे बोभूयिषेति स्थितम् । ण्यन्तात् सन्निति ॥ बोभूयिषेत्यस्मात् हेतुमण्णिचि अतो लोपे बोभूयिषि इति स्थितम् । तस्मात् सनि इटि णिचो गुणायादेशयोः षत्वे बोभूयिषयिषेति स्थितम् । ततो लटस्तिपि शपि पररूपे बोभूयिषयिषतीति रूपम् । अनभ्यासस्येत्युक्तेर्न पुनर्द्वित्वम् । अथ बोभूययिषतीत्यत्र प्रक्रियान्दर्शयति । यङिति ॥ भूधातोरिति शेषः । द्वित्वे बोभूयेति स्थितम् । णिजिति ॥ बोभूयेत्यस्माद्धेतुमण्णौ अतो लोपे बोभूयि इति स्थितम् । सन्नन्ताण्णिजिति ॥ बोभूयि इत्यस्मात्सनि इटि णिचो गुणायादेशयोः षत्वे बोभूययिषेति स्थितम् । तस्माद्धेतुमण्णिचि अतो लोपे बोभूययिषि इत्यस्माल्लटस्तिपि शपि पररूपे बोभूययिषयतीति रूपं सिद्धम् ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया

बालमनोरमायाम्प्रत्ययमाला समाप्ता