पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९४
सिद्धान्तकौमुदीसहिता

'कण्डूञ् गात्रविघर्षणे' । कण्डूयति-कण्डूयते । 'मन्तु अपराधे' । रोष इत्येके । मन्तूयति । चन्द्रस्तु ञितमाह । मन्तूयते । 'वल्गु पूजामाधुर्ययोः' वल्गूयति । 'असु उपतापे' 'असु, असूञ्' इत्येके । अस्यति । असूयति-असूयते । 'लेट् लोट् धौर्त्ये, पूर्वभावे, स्वप्ने च' दीप्तावित्येके । लेट्यति । लेटिता । लोट्यति । लोटिता । 'लेला दीप्तौ' । 'इरस्, इरज्, इरञ्, ईर्ष्यायाम्' इरस्यति । इरज्यति । 'हलि च' (सू ३५४) इति दीर्घः । ईर्यति-ईर्यते । 'उषस् प्रभातीभावे' 'वेदे, धौर्त्ये, स्वप्ने च' 'मेधा आशुग्रहणे' । मेधायति । 'कुषुभ क्षेपे । कुषुभ्यति । 'मगध परिवेष्टने' । 'नीच दास्ये' इत्यन्ये । 'तन्तस् पम्पस् दुःखे' । 'सुख दुःख तत्क्रियायाम्' सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः । 'सपर पूजायाम्' । 'अरर आराकर्मणि' । 'भिषज् चिकित्सायाम्' । 'भिष्णज् उपसेवायाम्' । 'इषुध शरधारणे' । 'चरण वरण गतौ' । 'चुरण चौर्ये' । 'तुरण त्वरायाम्' । 'भुरण धारणपोषणयोः' । 'गद्नद वाक्स्खलने' । 'एला केला खेला विलासे' । 'इल इत्यन्ये' । 'लेखा स्खलने च' । अदन्तोऽयमित्यन्ये । लेख्यति | 'लिट अल्पकुत्सनयोः' । लिट्यति । 'लाट जीवने' । 'हृणीङ् रोषणे लज्जायां च' । 'महीङ् पूजायाम्' । महीयते । पूजां लभते इत्यर्थः । 'रेखा श्लाघासादनयो:' । 'द्रवस् परितापपरिचरणयोः । 'तिरस् अन्तर्धौ' । 'अगद नीरोगत्वे' । 'उरस् बलार्थः' । उरस्यति । बलवान्भवतीत्यर्थः । 'तरण गतौ' । 'पयस् प्रसृतौ' । 'सम्भूयस् प्रभूतभावे' । 'अम्बर संवर संभरणे' । आकृतिगणोऽयम् ।

इति तिङन्तकण्ड्वादिप्रकरणम्


कण्डूरित्यादिरपि गृहीतरूपसिद्धिः । लेटितेति ॥ 'यस्य हलः' इति यलोपः । मेधा आशुग्रहणे इति ॥ आशुग्रहणन्त्वरया बोधः । सुग्रहणे इति पाठान्तरम् । सुख्यतीति ॥ यकि अतो लोपः । प्रातिपदिकेभ्यो यकि तु आर्द्धधातुकत्वाभावादल्लोपो न स्यादिति बोध्द्यम् । चौरादिकयोस्तु सुखयति दुःखयतीत्युक्तम् । अरर आराकर्मणीति ॥ आरा प्रतोदः तत्करणकं कर्म आराकर्म । भिषज् चिकित्सायाम् ॥ जान्तोऽयम् । भिषज्यति । लेखा स्खलने चेति ॥ लेखायति । लेख्यतीति ॥ अदन्ताद्यकि अतो लोपः । आकृतिगणोऽयमिति ॥ कण्ड्वादय इत्यर्थः । तेन दुवस् सन्दीपने इत्यादिसङ्ग्रहः । 'समिधा अग्नि दुवस्यते' ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमायां कण्ड्वादयः समाप्ताः ॥