पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३८९
बालमनोरमा ।

'नस्तद्धिते' (सू ६७९) इति टिलोपः । प्रकृतिभावस्तु न, येन नाप्राप्तिन्यायेन 'टेः' (सू १७८६) इत्यस्यैव बाधको हि सः । भत्वात्सम्प्रसारणम् । अन्ये तु 'नस्तद्धिते' (सू ६७९) इति नेहातिदिश्यते । इष्ठनि तस्यादृष्टत्वात् । ब्रह्मिष्ठ इत्यादौ परत्वात् 'टे:' (सू १७८६) इत्यस्यैव प्रवृत्तेः । तेन शुनयतीति रूपमाहुः । विद्वांसमाचष्टे विद्वयति । अङ्गवृत्तपरिभाषया सम्प्रसारणं नेत्येके । सम्प्रसारणे वृद्धावावादेशे च विदावयतीत्यन्ये । नित्यत्वाट्टिलोपात्प्राक्सम्प्रसारणम् । अन्तरङ्गत्वात्पूर्वरूपं टिलोपः । विदयतीत्यपरे ।


श्वन् इ इति स्थिते आह । नस्तद्धिते इति ॥ 'प्रकृत्यैकाच्' इति प्रकृतिभावमाशङ्क्य आह । प्रकृतिभावस्तु नेति ॥ कुत इत्यत आह । येनेति ॥ 'टेः' इति टिलोपे प्राप्ते सत्येव प्रकृत्यैकाजित्यारभ्यते । 'नस्तद्धिते' इत्यस्य स्रजिष्ठः इत्यादौ अप्राप्तोऽपि प्रकृतिभाव. आरभ्यते इति भावः । भत्वादिति ॥ इष्ठवत्वेन भत्वात् 'श्वयुव' इति सम्प्रसारणमित्यर्थ । तथा च श्वन् इ इति स्थिते टिलोपे सति तस्याभीयत्वेनासिद्धत्वादन्नन्तत्वात् वस्य सम्प्रसारणे पूर्वरूपे उकारस्य वृद्धौ आवादेशः । अन्ये त्विति ॥ इष्ठनि दृष्टस्यैव इष्ठवदित्यतिदेश । टेरित्येव टिलोप इष्ठनि दृष्ट, न तु 'नस्तद्धिते' इति अतो नास्यातिदेश इत्यर्थः । नन्वतिशयेन ब्रह्मा ब्रह्मिष्ठ इत्यत्र नस्तद्धिते इति टिलोपो दृष्ट इत्यत आह । ब्रह्मिष्ठ इत्यादाविति ॥ तेनेति ॥ 'नस्तद्धिते' इत्यस्याप्रवर्तनेनेत्यर्थ । ततश्च प्रकृतिभावात् 'टेः' इति लोपस्याभावे सम्प्रसारणे शुनयतीति रूपमित्यर्थः । आहुरित्यस्वरसोद्भावनम् । तद्वीजन्तु ब्रह्मवच्छब्दादिष्ठनि टेरिति टिलोपापवादे 'विन्मतोर्लुक्’ इति मतुपो लुकि 'नस्तद्धिते' इति टिलोपो दृष्ट एव । ततश्च इष्ठनि तस्यादृष्टत्वादित्ययुक्तम् । किञ्च ब्रह्मिष्ठ इत्यादौ परत्वाट्टेरित्यस्य प्रवृत्तिरित्ययुक्तम् । केवलस्य ब्रह्मन्शब्दस्य वेदादिवचनस्य गुणवचनत्वाभावेन इष्ठनो दुर्लभत्वात् 'अजादेर्गुणवचनादेव' इत्युक्ते । मत्वन्तादिष्ठनि तु मतोर्लुकि तेन 'टेः' इत्यस्य प्रवृत्तिबाधेन लुगुत्तरन्तदप्रवृत्त्या परत्वादित्यप्यसङ्गतिरिति शब्देन्दुशेखरे स्थितम् । विद्वयतीति ॥ विद्वस्शब्दाण्णौ टिलोप. । ननु इष्ठवत्वात् भत्वे वसोस्सम्प्रसारणमित्याशङ्क्य आह । अङ्गवृत्तेति ॥ 'अङ्गवृत्ते पुनर्वृत्तावविधि' इति पारिभाषयेत्यर्थः । 'अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्' इति तदर्थः । वस्तुतस्तु विद्वयतीत्यत्र 'टेः' इत्यसोलोपे वस्वन्तत्वाभावात् सम्प्रसारणाप्रसक्तेरङ्गवृत्तपरिभाषोपन्यासो वृथेत्यस्वरस सूचयति । इत्येके इति । सम्प्रसारणे इति ॥ विद्वस्शब्दाण्णौ इष्ठवत्त्वेन टिलोपे कृते वकारस्य सम्प्रसारणे पूर्वरूपे उकारस्य वृद्धौ आवादेशे विदावयतीत्यन्ये मन्यन्ते इत्यर्थः । अत्रापि पूर्ववदेवास्वरसः टिलोपे सति वस्वन्तत्वाभावात् । नित्यत्वादिति ॥ टिलोपे कृते अकृते च प्रवृत्तेः सम्प्रसारण नित्यम् । टिलोपस्तु कृते सम्प्रसारणे पूर्वरूपे च कृते उसो भवति । अकृते तु अस् इत्यनित्यः । 'शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः' इति न्यायादिति भावः । ननु कृतेऽपि सम्प्रसारणे पररूपात्प्राक् अस एव टिलोप इति तस्य नित्यत्वमित्यत आह । अन्तरङ्गत्वात्पूर्वरूपं टिलोपः इति ॥ सम्प्रसारणे पूर्वरूपे कृते