पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८८
[नामधातु
सिद्धान्तकौमुदीसहिता

वुक्तम् । 'प्रकृत्यैकाच्’ (सू २०१०) । वृद्धिपुकौ । स्वापयति । त्वां मां वा आचष्टे त्वापयति मापयति । मपर्यन्तस्य त्वमौ । पररूपात्पूर्वं नित्यत्वाट्टिल्लोपः वृद्धिपुकौ । त्वादयति मादयति इति तु न्याय्यम् । अन्तरङ्गत्वात्पररूपे 'प्रकृत्यैकाच्' (सू २०१०) इति प्रकृतिभावात् । न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यम् । भाष्यस्य प्रेष्ठाद्युदाहरणविशेषेऽन्यथासिद्धिपरत्वात् । युवामावां वा युष्मयति अस्मयति । श्वानमाचष्टे शावयति ।


प्रकृत्यैकाजिति ॥ प्रकृतिभावाट्टिलोपाभावे अकारस्य वृद्धौ आकारे पुगागमः । तदाह । वृद्धिपुकाविति ॥ त्वापयति मापयति इत्यत्र प्रक्रिया दर्शयति । मपर्यन्तस्येति ॥ युष्मदस्मभ्द्या णौ 'प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वमौ । त्व अद् इ, म अद् इ इति स्थिते आह । पररूपादिति ॥ कृते अकृते च पररूपे टिलोपस्य प्रवृत्तेर्नित्यत्वम्बोध्द्यम् । त्व इ म इ इति स्थिते आह । वृद्धिरिति ॥ अकारस्य आकार । टिलोपस्य स्थानिवत्त्वन्तु न शङ्क्यम् । अजादेशत्वाभावात् । पुगिति ॥ 'अर्ति' इत्यनेनेति भावः । तदेवम्प्राचीनमतमुपन्यस्य स्वमतमाह । त्वादयतीत्यादिना ॥ तदेवोपपादयति । अन्तरङ्गत्वादिति ॥ त्व अद् इ, म अद् इ इति स्थिते नित्यमपि टिलोपम्बाधित्वा अन्तरङ्गत्वात्पररूपे कृते 'प्रकृत्यैकाच्' इति प्रकृतिभावे टिलोपस्याप्रवृत्तौ उपधावृद्धिरिति भाव । ननु 'इष्ठेमेयस्सु' किमुदाहरणमिति प्रश्ने प्रेयान् प्रेमा प्रेष्ठः इत्युदाहरणानि प्रदर्श्य नैतदस्ति प्रयोजन 'प्रस्थस्फ' इति विहितप्रादीनामाभीयत्वेनासिद्धतया तस्य टिलोपाप्रसक्तेरित्युक्त्वा श्रेयान् श्रेष्ठः इत्यत्र 'प्रशख्यस्य श्रः' इति श्रादेशस्य पाञ्चमिकतया आभीयत्वाभावेनासिद्धत्वाभावात् टिलोपे अप्राप्ते प्रकृतिभावविधिरित्युदाहरणान्तर प्रदर्श्य श्रादेशे अकारोच्चारणसामर्थ्याट्टिलोपो न भविष्यतीत्युक्त्वा स्रग्वितमः स्रजिष्ठः इत्यत्र 'विन्मतोर्लुक्' इति लुड्निवृत्त्यर्थ प्रकृतिभावविधानमित्युक्त्वा प्राप्त एव टिलोपे आरभ्यमाणस्य लुकस्तदपवादतया लुका टिलोपस्य बाधो भविष्यतीति 'प्रकृत्यैकाच्' इत्यस्य भाष्ये प्रत्याख्यातत्वात् 'त्वादयति, मादयति' इत्यत्र प्रकृतिभावोपन्यासो न युज्यते इत्याशङ्क्य निराकरोति । न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यमिति ॥ कुत इत्यत आह । भाष्यस्येति ॥ उदाहृतभाष्यस्य हि प्रेयान् प्रेष्ठ इत्यादीना प्रकृतिभाव विनाऽपि साधने तात्पर्य, न तु प्रकृतिभावप्रत्याख्यानमभिमतम् । स्वमाचष्टे स्वापयतीत्यादौ तदावश्यकत्वात् । अत एव 'प्रकृत्यैकाच्' 'इष्ठेमेयस्सु' चेन्नैकाच उच्चारणसामर्थ्यादवचनात् प्रकृतिभाव इति वार्तिकव्याख्यावसरे 'अन्तरेणापि वचन प्रकृतिभावो भविष्यति' इति भाष्ये उक्तम् । अन्यथा अन्तरेणैव वचनामित्युच्येत इत्यास्तान्तावत् । 'प्रत्ययोत्तरपदयोश्च' इत्यत्र एकवचने इत्यनुवृत्तम् । तच्च यौगिकमाश्रीयते । एकत्वविशिष्टवाचिनोर्युष्मदस्मदोरिति लभ्यते इति मत्वा आह । युवामावां वेति ॥ न च द्वयोरुक्तौ युवावादेशौ शङ्क्यौ विभक्तेर्लुका लुप्तत्वात् । न च लुकः प्रागेव युवावौ किन्न स्यातामिति वाच्यम् । 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इत्युक्तेरिति भावः । 'शावयतीति ॥ श्वानमाचष्टे इत्यर्थः । श्वन्शब्दाण्णौ