पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९०
[नामधातु
सिद्धान्तकौमुदीसहिता

उदञ्चमाचष्टे उदीचयति । उदैचिचत् । प्रत्यञ्चं प्रतीचयति । प्रत्यचिचत् । 'इकोऽसवर्णे-' (सू ९१) इति प्रकृतिभावपक्षे, प्रतिअचिचत् । सम्यञ्चमाचष्टे समीचयति | सम्यचिचत्-समिअचिचत् । तिर्यञ्चमाचष्टे तिराययति । अञ्चेष्टिलोपेनापहारेऽपि बहिरङ्गत्वेनासिद्धत्वात्तिरसस्तिरि: । 'असिद्धवदत्र---' (सू २१८३) इति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः । अत: पुनष्टिलोपो


उसो लोपेऽपि वस्वन्तत्वस्य विनक्ष्यत्वान्न सम्प्रसारणमित्यस्वरस सूचयति । इत्यपरे इति ॥ एवञ्च विद्वयतीति प्रथमपक्ष एव स्थितः । तत्राङ्गवृत्तपरिभाषोपन्यास एव वृथेति स्थितम् । उदीचयतीति ॥ उत्पूर्वकादृत्विगित्यादिना क्विनि 'अनिदिताम्' इति नलोपे उदचशब्द. । तस्माण्णौ इष्ठवत्त्वेन भत्वादच इत्यकारलोप बाधित्वा 'उद ईत्' इति ईत्त्वे उदीचि इति ण्यन्ताल्लडादय इति भावः । उदैचिचदिति ॥ लुडि 'द्विर्वचनेऽचि' इति णिलोपनिषेधात् चिशब्दस्य द्वित्वम् 'उपसर्गसमानाकारम्पूर्वपद धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते 'इत्युक्तेरुदः उपर्याडिति भाव. । एवञ्च उद. पृथक्करणेन 'प्रकृत्यैकाच्' इति प्रकृतिभावान्न टिलाप । प्रतीचयतीति ॥ अच इत्यल्लोपे 'चौ' इति पूर्वस्य दीर्घः । इह अच इत्यल्लोपे चिशब्दात्प्रागटि तकारादिकारस्य यण् । अच इत्यकारलोपस्याभीयत्वेऽपि असमानाश्रयत्वान्नासिद्धत्वम् । लोपस्य णिनिमित्तत्वात् । आटस्तु लुड्निमित्तत्वात् । इकोऽसवर्णे इतीति ॥ 'न समासे' इति तु न । पृथक्करणेन समासनिवृत्तेः । समीचयतीति ॥ 'समस्समिः' इति सम्यादेशः । अच इति लोपे चाविति दीर्घ. । सम्यचिचदिति ॥ सम्यादेशस्य स्थानिवत्त्वेनोपसर्गत्वात् पृथक्करणम् । पृथक्करणेन उत्तरपदपरत्वाभावेऽप्यन्तरङ्गत्वाज्जातस्सम्यादेशो न निवर्तते । तिराययतीति ॥ तिरस् इत्यव्ययम् । तत्पूर्वात् अञ्चेः क्विनि नलोपे तिरस् अच् इत्यस्माण्णौ टिलोपेन धातोर्निवृत्तौ तिरसस्तिर्यलोपे इति तिरिभावे इकारस्य वृद्धावायादेशे तिरायि इत्यस्मात् ण्यन्ताल्लडादीति भावः । न च तिरसः पृथक्करणे सति धातोः 'प्रकृयैकाच्' इति प्रकृतिभावात् कथं टिलोप इति वाच्यम् । तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाभावेन पृथक्करणाभावात् । नन्वेव सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतिपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह । अञ्चेष्टिलोपेनेति । बहिरङ्गत्वेनेति ॥ बहिर्भूतणिनिमित्तकत्वादिति भावः । नन्वस्तु तिरसस्तिरिः । तत्र रेफादिकारस्य टेरिति लोपः स्यादित्यत आह । असिद्धवदत्रेति ॥ प्रथमटिलापोऽसिद्ध इत्यन्वय । तिरस् अच् इ इति स्थिते प्रथमप्रवृत्तः अच् इत्येवरूपटेर्लोप. तिरेष्टिलोपे कर्तव्ये आभीयत्वादसिद्ध इत्यर्थः । ननु प्रथमटिलोपस्य कथन्तिरेष्टिलोपे कर्तव्ये असिद्धत्वम् । टिलोपशास्त्रस्य एकत्वादित्यत आह । चिणो लुङ्न्यायेनेति ॥ पचधातोर्भावकर्मणोर्लुडस्तडि प्रथमपुरुषैकवचने तशब्दे परे 'चिण् भावकर्मणो' इति च्लेश्चिणि उपधावृद्धौ अटि अपाचि त इत्यस्मात् 'तिडश्च' इति तरपि तदन्तात् 'किमेत्तिडव्ययघादाम्' इत्याम्प्रत्यये अपाचिततरामिति स्थिते 'चिणो लुक्' इति प्रथमस्य तशब्दस्य लुकि कृते पुनस्तरप्प्रत्ययतशब्दस्य लुङ् न भवति । स्थानिभेदेन लुको भेदमाश्रित्य प्रथमलुकः असिद्धत्वेन व्यवधानादिति स्थितिः । एवमिहापीत्यर्थः । अतः इति ॥ प्रथमटिलोपस्यासिद्ध-