पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३८५
बालमनोरमा ।

२६७७ । मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो
णिच् । (३-१-२१)

कृञर्थे । मुण्डं करोति मुण्डयति । 'व्रताद्भोजनतन्निवृत्त्योः' (वा ५०६०) । पयः शूद्रान्नं वा व्रतयति । 'वस्त्रात्समाच्छादने' (वा ५०६१) । संवस्त्रयति । 'हल्यादिभ्यो ग्रहणे' (वा ५०६२) । 'हलिकल्योरदन्तत्वं च निपात्यते' (वा १७४७) । हलिं कलिं वा गृह्णाति हलयति कलयति । महद्धलं हलिः । परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेऽगेव लुप्यते । अतः सन्वद्भावदीर्घौ न । अजहलत् । अचकलत् । कृतं गृण्हाति कृतयति । तूस्तानि विहन्ति वितूस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे । मुण्डादयः 'सत्यापपाश--'(सू २५६३) इत्यत्रैव पठितुं युक्ताः । 'प्रातिपदिकाद्धात्वर्थे--' इत्येव सिद्धे केषांचिद्ग्रहणं सापेक्षेभ्योऽपि णिज-


एवमुत्पुच्छयते इत्यादावपि । 'चीवरादार्जने' इत्यपि वार्तिकम् । मुण्डमिश्र ॥ कृञर्थे इति शेषपूरणम् । 'शब्दवैर' इत्यतः करणे इत्यनुवृत्तेरिति भावः । 'व्रताद्भोजने' इति वार्तिकम् । पयः शूद्रान्नं वा व्रतयतीति ॥ पयो भुङ्क्ते, शूद्रान्नं वर्जयतीत्यर्थः । 'वस्त्रात्समाच्छादने' इत्यपि वार्तिकम् । भाष्ये तु न दृश्यते । संवस्त्रयतीति ॥ वस्त्रेण सम्यगाच्छादयतीत्यर्थः । वस्त्रम्परिधत्ते इति वा । 'हल्यादिभ्यो ग्रहणे' इति वार्तिकम् । भाष्ये तु न दृश्यते । हलिकल्योरिति ॥ हलिकली इदन्तौ । हलकलशब्दावदन्तौ इदन्तौ च । याविदन्तौ तयोरत्त्वन्निपात्यते इति भाष्ये स्पष्टम् । हलयति कलयतीति ॥ हलिकलिभ्यां णौ इकारस्य अकारे इष्ठवत्त्वेन टेर्लोपे हलि कलि इति ण्यन्ताभ्यां लडादीति भावः । महद्धलं हलिरिति ॥ अत्र वृद्धप्रयोगः अन्वेषणीय. । नन्वनयोरिकारान्तयोरदन्तत्वनिपातन व्यर्थम् । इकारस्य णाविष्ठवत्त्वाल्लोपे हलयति कलयतीति सिद्धे: । न च अजहलत् अचकलत् इत्यत्र सन्वत्त्वाप्रवृत्तये अग्लोपित्वाय तयोरदन्तत्वमिति वाच्यम् । इकारलोपेऽप्यग्लोपित्वसिद्धेः इत्यत आह । परत्वादिति ॥ इकारस्य णौ इष्ठवत्त्वे टिलोपात् प्रागेव परत्वात् 'अचो ञ्णिति' इति वृद्धौ कृतायां ऐकारस्य इष्ठवत्त्वात् टिलोपे अग्लोपित्व न स्यात् । इकारयोरत्त्वे तु अकारस्य टिलोपात् प्राक् परत्वाद्वृद्धौ सत्यामप्याकार एव इष्ठवत्त्वाल्लुप्यते इत्यर्थः । अतः इति ॥ अग्लोपित्वात् सन्वत्त्वं 'दीर्घो लघोः' इति दीर्घश्च नेत्यर्थः । कृतं गृण्हातीति ॥ उपकारं स्वीकरोतीत्यर्थः । पठितुं युक्ताः इति ॥ लाघवादेकसूत्रत्व युक्तमित्यर्थः । केषांञ्चिदिति ॥ मुण्डादीनामित्यर्थः । सापेक्षेभ्योऽपीति ॥ अन्यथा णिजन्तस्यास्य सनान्तवृत्तित्वाद्विशेषणसापेक्षत्वे मुण्डादिभ्यो णिज् भवेत् । सविशेषणानां वृत्तिनिषेधात् । इह मुण्डादीनां पुनर्ग्रहणे तु तत्सामर्थ्यात् सापेक्षेभ्योऽपि मुण्डादिभ्यो णिच् सिध्द्यतीत्यर्थः । स्पष्टञ्चेद 'सुप आत्मनः' इत्यत्र भाष्यकैयटयोः । मुण्डयति माणवकमिति ॥ अत्र माणवक 49