पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८६
[नामधातु
सिद्धान्तकौमुदीसहिता

र्थम् । मुण्डयति माणवकम् । मिश्रयत्यन्नम् । श्लक्ष्णयति वस्त्रम् । लवणयति व्यञ्जनमिति । हलिकल्योरदन्तत्वार्थम् ।सत्यस्यापुगर्थम् । केषांचित्तु प्रपञ्चार्थम् । सत्यं करोत्याचष्टे वा सत्यापयति । 'अर्थवेदयोरप्यापुग्वक्तव्यः' (वा १७५८) ।अर्थापयति । वेदापयति । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायत्युपवीणयति । तूलेनानुकुष्णात्यनुतूलयति । तृणाग्रं तूलेनानुघट्टयतीत्यर्थः । श्लोकैरुपस्तौति उपश्लोकयति । सेनयाभियाति अभिषेणयति । 'उपसर्गात्सुनोति--' (सू २२७०) इति षः । अभ्यषेणयत् । 'प्राक्सितात्--' (सू २२७६) इति षः । अभिषिषेणयिषति । 'स्थादिष्वभ्यासेन च--' (२२७७) इति षः । लोमान्यनुमार्ष्टि अनुलोमयति । 'त्वच संवरणे' घः । त्वचं गृह्णाति त्वचयति । चर्मणा संनह्यति सञ्चर्मयति । वर्णं गृह्णाति वर्णयति । चूर्णैरवध्वंसते अवचूर्णयति । इष्ठवदित्यतिदेशात्पुंवद्भावादयः । एनीमाचष्टे एतयति । दरदमाचष्टे दारदयति ।


मुण्डङ्करोतीत्यर्थे मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिजिति भाव । यदा तु प्रकरणादिना माणवकत्वादिविशेषण ज्ञाप्यते तदैव मुण्डयतीति णिजिति भावः । 'सुप आत्मनः' इति सूत्रभाष्ये तु मुण्डय माणवकमित्यत्र गमकत्वाण्णिच् । महान्त पुत्रमिच्छतीत्यादौ तु अगमकत्वात् न क्यजित्युक्तम् । तदा प्रपञ्चार्थमेव मुण्डादिग्रहणमिति शब्देन्दुशेखरे स्थितम् । श्लक्ष्णयति वस्त्रमिति ॥ निर्मलं करोतीत्यर्थः । लवणयति व्यञ्जनमिति ॥ लवणयुक्तं करोतीत्यर्थः । हलिकल्योरिति ॥ एवञ्च ताभ्यां सापेक्षाभ्यां न णिच् । तद्ग्रहणस्य अदन्तत्वनिपातने चरितार्थत्वादिति भावः । ननु सत्यशब्दात् तत्करोति इत्यादिनैव णिच्सिद्धे. 'सत्याप' इति सूत्रे सत्यग्रहण व्यर्थमित्यत आह । सत्यस्यापुगर्थमिति । केषाञ्चिदिति ॥ पाशादीनामित्यर्थः । सत्यापयतीति ॥ आपुग्विधिसामर्थ्यान्न टिलोपः । पाश विमुञ्चतीत्यादौ 'प्रातिपदिकाद्धात्वर्थे' इति णिच् । अभिषिषेणयिषतीति ॥ आभिषेणि इति ण्यन्तात्सनि रूपम् । ननु त्वचङ्गृण्हाति त्वचयतीति कथम् । त्वच्छब्दाच्चकारान्ताण्णिचि टिलोपे त्वचयतीत्यापत्तेरित्यत आह । त्वचेति ॥ 'त्वच सवरणे' इत्यस्मात् 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्यय इत्यर्थः । पुंवद्भावादयः इति ॥ आदिना रभावटिलोपादिग्रहणम् । एतयतीति ॥ 'भस्याढे' इति पुवत्वस्य इष्ठनि प्रवृत्तेः णावपि तस्यातिदेशात् 'वर्णादनुदात्तात्' इति स्त्रीप्रत्ययस्य तत्सन्नियोगशिष्टनत्वस्य च निवृत्तौ एतशब्द तकारादकारस्य टिलोप इति भावः । नन्वेनीशब्दाण्णौ टिलोपेन स्त्रीप्रत्ययनिवृत्तौ तत्सन्नियोगशिष्टनत्वस्यापि निवृत्तौ एतयतीति सिध्द्यतीत्यस्वरसत्वात् पुंवद्भावे उदाहरणान्तरमाह । दरदमिति ॥ दरदिति कश्चिद्राजा, तस्यापत्य दारदः 'ह्यञ्मगध' इत्यण् । स्त्र्यपत्ये तु दरदोऽपत्य स्त्री दरत् 'अतश्च' इत्यणो लुक् । तामाचष्टे इत्यर्थे दरच्छब्दाण्णौ इष्ठव-