पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७८
[नामधातु
सिद्धान्तकौमुदीसहिता

वृद्धिं बाधित्वा अतो लोपात् चक इति रूपमाह । स्व इव सस्वौ । सस्व । यत्तु स्वामास । स्वाञ्चकार इति । तदनाकरमेव ।

२६६७ । भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः । (६-१-१२)

अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्याद्धलन्तानामेषां लोपश्च । अभृशो भृशो भवति भृशायते । 'अच्वेः' इति पर्युदासबलात् 'अभूततद्भावे' इति लब्धम् । तेनेह न । क्व दिवा भृशा भवन्ति । ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व भवन्तीत्यर्थः । 'सुमनस्' अस्य सलापः । सुमनायते । चुरादौ 'संग्राम युद्धे' इति पठ्यते । तत्र 'संग्राम' इति प्रातिपदिकम् । तस्मात् 'तत्करोति--' इति णिच् सिद्धः । तत्सन्नियोगेनानुबन्ध आसज्यते ।


'अत आदेः' इति दीर्घमपि । 'अनन्तरस्य' इति न्यायादिति माधवाशय इत्याहः । तदनाकरमेवेति ॥ अनेकाच्त्वाभावादिति भावः । वस्तुतस्तु प्रत्ययग्रहणमपनीयेत्यस्य भाष्ये अदर्शनात् प्रत्ययान्तत्वादाम्भवत्येवेति युक्तमेवेत्यनुपदमेवोक्तम् । भृशादिभ्यो ॥ भवनं भू भावे क्विप् । तदाह । भवत्यर्थे इति ॥ भवने इत्यर्थः । क्यङ् स्यादिति ॥ 'कर्तु क्यङ् सलोपश्च' इत्यतस्तदनुवृत्तेरिति भाव. । हलन्तानामेषामिति ॥ भृशादिषु ये हलन्ताः तेषां सलोपः क्यङ् चेत्यर्थः । 'ननु अभूततद्भावे' इति कुतो लब्धमित्यत आह । अच्व्येरिति पर्युदासबलादिति ॥ अभूततद्भावग्रहणमिति वार्तिकमेतल्लब्धार्थकथनपरमिति भावः । ये रात्रौ भृशाः इति ॥ प्रकाशातिशयवन्त इत्यर्थः । भृशादिषु हलन्तमुदाहरति । सुमनस् इति ॥ सुमनायते इति ॥ असुमनाः सुमनाः भवतीत्यर्थः । यद्यपि स्त्रियामित्यधिकारे 'अप्सुमनस्समासिकतावर्षाणाम्बहुत्वञ्च' इति लिङ्गानुशासनसूत्रे सुमनश्शब्दस्य नित्यं बहुवचन विहितम् । तथापि तद्देवादिपर्यायरूढविषयम् । सु शोभन मनो यस्येति सुमनाः इति बहुव्रीहियौगिक इति भावः । सुमनायत इति क्यङि सलोपे 'अकृत्सार्व' इति दीर्घः । ननु लङि मनश्शब्दात्प्रागटि 'स्वमनायत' इति वक्ष्यमाणमनुपपन्नम् । अङ्गस्य अड्विधानात् सुमनश्शब्दस्य समस्तस्यैव लड प्रत्यङ्गत्वात् । 'प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणम्' इत्याशङ्क्य आह । चुरादौ संग्राम युद्धे इति पठ्यते इति ॥ ततश्च क्वचित् सोपसर्गपाठबलादन्यस्मात् सोपसर्गादाचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इति विज्ञायते इत्यर्थः । ननु चुरादौ सङ्ग्रामेति समस्तो धातुः, नतु सोपसर्गो ग्रामशब्दः । एवञ्चास्य प्रातिपदिकत्वाभावात् सोपसर्गात् क्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमिदङ्गमकमित्यत आह । तत्र संग्राम इति प्रातिपदिकमिति ॥ 'ग्रसेराच' इत्यौणादिके मन्प्रत्यये निष्पन्नस्य ग्रामशब्दस्य 'कृत्तद्धित' इति प्रातिपदिकत्वम् । अव्युत्पत्तिपक्षे 'अर्थवदधातुः' इति प्रातिपदिकत्वमित्यर्थः । ननु चुरादावस्य पाठो धात्वधिकारविहितचौरादिकणिजर्थः । एवञ्च प्रातिपदिकत्वेन चुरादौ तस्य पाठो व्यर्थ इत्यत आह । तस्मादिति ॥ तस्मात् सङ्ग्राम इति