युद्धे योऽयं ग्रामशब्दः इत्युक्तेऽपि सामर्थ्यात्संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति । 'उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते' इति । तेन मनःशब्दात्प्रागट् । स्वमनायत । उन्मनायते । उदमनायत । एवं च अवागल्भत अवागल्भिष्टेत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् । ज्ञापकं च सजातीयविषयम् । तेन यत्रोपसर्गस्वरूपं सकलं श्रूयते न
प्रातिपदिकात् चौरादिकणिजसम्भवेऽपि 'तत्करोति' इत्यर्थे णिच् सिद्ध इत्यर्थ. । ननु 'तत्करोति' इत्यनेनैव सङ्ग्रामशब्दात् प्रातिपदिकाण्णिच्सिद्धेः किमर्थमिह चुरादौ तस्य पाठ इत्यत आह । तत्सन्नियोगेनेति ॥ णिच्सन्नियोगेन अकारस्य इत्संज्ञकस्य अनुदात्तेत्त्वार्थकस्य आसंज्ञनार्थ इत्यर्थः । नच मकारादकारस्य इत्संज्ञकत्वे अल्लोपस्य णिनिमित्तकत्वाभावादसङ्ग्रामत इत्यत्र 'णौ चड्युपधाया' इत्युपधाह्रस्व. स्यादिति वाच्यम् । सङ्ग्रामेत्ययं हि कथादित्वाददन्तः । तस्मादकारः अनुबन्धत्वेनासज्यते इत्यर्थः । एवञ्च णौ अतो लोपे सति णावग्लोपित्वान्नोपधाह्रस्वः । कथादित्वलक्षणादन्तत्वालाभायैवास्य चुरादौ पाठ इति भावः । ननु चुरादौ सङ्ग्रामशब्दस्य 'तत्करोति' इति णिचि परे अस्त्वनुबन्धासङ्ग । तथापि आचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमस्य ज्ञापकतेत्यत आह । युद्धे इति ॥ सामर्थ्यादिति ॥ ग्राम युद्धे इत्येतावतैव सङ्ग्रामशब्दो लभ्यते । केवलस्य ग्रामशब्दस्य युद्धे प्रयोगाभावादित्यर्थः । विशिष्टपाठः इति ॥ सङ्ग्रामशब्दपाठ इत्यर्थः । ज्ञाप्यमर्थमाह । समानाकारमिति ॥ सङ्ग्रामशब्दे युद्धवाचिनि समित्यस्य क्रियायोगाभावात् समानाकारमित्युक्तम् । धातुसंज्ञाप्रयोजके इति ॥ क्विबादाविति शेष. । पृथक् क्रियते इति ॥ तथाच न तस्य धातुसंज्ञाप्रवेश इत्यर्थ । तत किमित्यत आह । तेनेति ॥ सम् इत्यस्य धातुसंज्ञाप्रवेशाभावेनेत्यर्थ. । तथाच सुमनश्शब्दात् आचारक्विपि विवक्षिते मनश्शब्दमात्रस्य धातुत्वात्ततो लङि मनश्शब्दस्यैवाङ्गत्वात्ततः प्रागेव अट् । न तु सुमनस् इति समुदायात्प्रगित्यर्थ । एतेन सङ्ग्रामयतेरेव सोपसर्गत् नान्यस्मादित्यादि भाष्य 'भृशादिभ्यः' इति सूत्रस्थ व्याख्यातमिति बोध्यम् । उन्मनायते इति ॥ भृशादित्वात् क्यङि सलोपः । एवञ्चेति ॥ एवमुक्तरीत्या 'आचारेऽवगल्भ' इति क्विब्विधावपि अवेत्यस्य पृथक्करणात् गल्भशब्दात्प्रागेव अट् इत्यर्थः । ननु आ ऊढ. ओढ 'कुगति' इति समासः । अस्माद्भृशादित्वात् क्यङि ओढायते इत्यादि रूपम् । अत्रापि आडो धातुसंज्ञाप्रवेशो न स्यात् । तत्र यद्यपि लङि ऊढशब्दाद्वा आडो वा प्राक् आटि न रूपे विशेषः । उभयथापि औढायतेत्येव रूप सिद्धमेव । तथापि ओढायेति क्यङन्तात् क्त्वाप्रत्यये अतो लोपे ओढायित्वेत्येवेष्यते । अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्कृतस्य आङः 'कुगतिप्रादयः' इति क्त्वाप्रत्ययान्तेन समासे सति 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' इति ल्यप् स्यादित्यत आह । ज्ञापकञ्च सजातीयविषयमिति ॥ तदेवोपपादयति । तेनेति ॥ चुरादौ 'सङ्ग्राम युद्धे' इति सम्ग्रहणस्य उक्तार्थे पृथक्करणे ज्ञापकस्य सजातीयविषयकत्वाश्रयणेन यत्र उपसर्गस्वरूपं अविकृत श्रूयते नत्वेकादेशेनापहृत तत्रैव उपसर्गस्य पृथक्कृतिरिति विज्ञायते इत्यर्थः । सङ्गामे सम्ग्रह-