पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७६
[नामधातु
सिद्धान्तकौमुदीसहिता

औ । वृद्धि:। अतुसादिषु तु 'आतो लोप इटि च' (सू २३७२) इत्याल्लोपः । मालेवाचरति मालाति । लिङ्गविशिष्टपरिभाषयैकादेशस्य पूर्वान्तत्वाद्वा क्विप् । मालाञ्चकार । लङि । अमालात् । अत्र हल्ङ्यादिलोपो न । ङीप्साहचर्यादापोऽपि सोरेव लोपविधानात् । इट्सकौ । अमालासीत् । कविरिव कवयति । आशीर्लिङि । कवीयात् । 'सिचि वृद्धिः-–' (सू २२९७) इत्यत्र 'धातोः' इत्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटादयः । अकवयीत् । माधवस्तु नामधातोरपि वृद्धिमिच्छति । अकवायीत् । विरिव


दीर्घे च आ अ इति स्थिते 'आत औ णल.' इत्यौत्वमिति भावः । वृद्धिरिति ॥ आ औ इति स्थिते 'वृद्धिरेचि' इति वृद्धिरित्यर्थः । तथा च औ इति रूप परिनिष्ठितम् । अतुसादिष्विति ॥ अ अतुस् , अ उस्, इति स्थिते द्वित्वे पररूपे 'अत आदे.' इति दीर्घे आतो लोप इत्यर्थ । अतु । उ. । इति प्रत्ययमात्र शिष्यते । थलि इटि द्वित्वे दीर्घे आल्लोपे, इथ । अथु । अ । औ । इव । इम । वस्तुतस्तु 'कास्यनेकाज्ग्रहणम्' इति वार्तिकव्याख्यावसरे प्रत्ययग्रहणमपनीयेति भाष्ये नोक्तम् । कासेश्च प्रत्ययान्ताच्च आमिति लभ्यते । अत एव 'आचारेऽवगल्भक्लीबहोडेभ्य.' इति वार्तिके अवगल्भाञ्चक्रे इत्यादौ अन्त्यवर्णस्यानुबन्धत्वेन एकाच्त्वेऽपि 'कास्प्रत्ययात्' इत्यामित्युक्त भाष्ये इति शब्देन्दुशेखरे प्रपञ्चितम् । इता । इष्यति । अतु-अतात् । अताम् । अन्तु । अ-अतात् । अतम् । अत । आनि । आव । आम । आत् । आताम् । आन् । आ. । आतम् । आत । आम् । आव । आम । विधिलिङि एत् । एताम् । एयु. । ए. । एतम् । एत । एयम् । एव । एम । आयात् । आयास्ताम् । आयासु. । लुङि 'इट ईटि' इति सिज्लोपे 'आटश्च' इति वृद्धिं बाधित्वा परत्वादतो लोपे इटा सह आटो वृद्धौ ऐत्, ऐष्टाम्, ऐषु, इत्यादीति केचित् । आर्धधातुकोपदेशकाले एव परत्वादतो लोपे अङ्गस्याभावादाट् नेत्यन्ये । ईत् । ईस्ताम् । इत्यादि । ऐष्यत् । वस्तुतस्तु आकारान्तेभ्य आचारे क्विप् नास्त्येवेति विश्वपाशब्दनिरूपणे प्रपञ्चितम् । ननु मालाशब्दस्य टाप्प्रत्ययान्तत्वेन प्रातिपदिकत्वाभावात्ततः कथं क्विबित्यत आह । लिङ्गविशिष्टेति ॥ ङीप्साहचर्यादिति ॥ ङ्यन्तादाचारक्विबन्तात् गौरीशब्दात् लुङि अगौरयीत् इत्यादौ तिस्योर्ङ्यन्तात्परत्वासम्भवात् तत्साहचर्यादाबन्तादपि न तयोर्लोप इत्यर्थः । कवयतीति ॥ शपि गुणायादेशौ । कवीयादिति ॥ 'अकृत्सार्व' इति दीर्घ. । लुङि अकवि ईत् इति स्थिते सिचि वृद्धिमाशङ्क्य आह । सिचि वृद्धिरित्यत्रेति ॥ सिचा धातोराक्षेपतो लाभेऽपि 'ॠत इद्धातोः' इत्यतस्तदनुवृत्तेर्धातुरेव यो धातुरिति लभ्यते इति भाव. । कैयटादयः इति ॥ 'इको गुणवृद्धी' इति सूत्रे गोशब्दादाचारक्विपि अगवीदित्युपक्रम्य तथोक्तत्वादिति भाव । माधवस्त्विति ॥ 'सिचि वृद्धिः' इत्यत्र 'ॠत इद्धातोः' इत्यतो धातुग्रहणानुवृत्तौ मानाभावेन धातुरेव यो धातुरित्युक्तार्थालाभादिति तदाशयः । वस्तुतस्तु 'इको गुणवृद्धी' 'वदव्रजहलन्तस्याच' इत्यादिसूत्रस्थभाष्ये सिचि परतः एजन्त नास्तीत्युक्तत्वादेजन्तेभ्यः आचारक्विप् नास्त्येवेति