पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३६५
बालमनोरमा ।

बलि लोपे यञादौ दीर्घः । जाहामि । जाहाव:। जाहामः । 'हर्य गतिकान्त्योः' । जाहर्यीति-जाहर्ति । जाहर्तः । जाहर्यति । लोटि । जाहर्हि । अजाहः । अजाहर्ताम् । अजाहर्युः । 'मव बन्धने' ।

२६५४ । ज्वरत्वरस्रिव्यविमवामुपधायाश्च । (६-४-२०)

ज्वरादीनामुपधावकारयोरूठ् स्यात्क्वौ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङिति इति नानुवर्तते । अवतेस्तुनि 'ओतुः' इति दर्शनात् । अनुनासिकग्रहणं चानुवर्तते । अवतेर्मानन्प्रत्यये तस्य टिलोपे 'ओम्' इति दर्शनात् । ईडभावे ऊठि पिति गुणः । मामोति-मामवीति । मामूत. । मामवति । मामोषि ।


इति यलोपः । मिपि ईडभावे जाहय् मि इति स्थिते आह । वलि लोपे इति ॥ ईटि जाहयीमि । जाहयाञ्चकार । जाहयिता । जाहयिष्यति । लोटि जाहयीतु-जाहतु-जाहतात् । जाहताम् । जाहयतु । जाहहि । जाहयानि । जाहयाव । लडि अजाहयीत्-अजाहत् । अजाहताम् । अजाहयु । अजाहयी-अजाह । अजाहतम् । अजाहत । अजाहयम् । अजाहाव । अजाहाम । जाहय्यात् । लुडि 'ह्म्यन्त' इति न वृद्धिः । 'अस्तिसिच.' इति नित्यमीट् । अजाहयीत् । अजाहयिष्टाम् । अजाहयिष्यत् । जाहर्तीति ॥ तिपि जाहर्य् ति इति स्थिते ईडभावे यलोप । जाहर्हीति ॥ हौ यलोप । लडस्तिपि अजाहर्य् त् इति स्थिते यलोप । हल्ड्यादिना तकारलोपः । रेफस्य विसर्गः इति मत्वा आह । अजाहः इति ॥ सिप्यप्येव रूपम् । ज्वरत्वरस्रिव्यविमवामुपधायाश्च ॥ ज्वर त्वर स्त्रिवि अवि मव् एषान्द्वन्द्वः । 'चच्छ्वो शूठ्' इत्यतः वकारग्रहणम् ऊठ्ग्रहणम् अनुनासिके इति चानुवर्तते । छस्य श इति नानुवर्तते । ज्वरादिषु छस्य अभावेन असम्भवात् । 'अनुनासिकस्य क्विझलोः क्डिति' इत्यत. क्विझलोरिति चानुवर्तते । चकारो वकारसमुच्चयार्थः । तदाह । ज्वरादीनामिति । अवतेस्तुनीति ॥ अवधातोरौणादिके तुन्प्रत्यये कृते अकारवकारयोरूठि तस्य गुणे ओतुरिति दृश्यते । क्डितीत्यनुवृत्तौ तु तन्न स्यादिति भाव.। ओमिति ॥ 'अवतेष्टिलोपश्च' इत्यौणादिकसूत्रम् । 'अव रक्षणे' इति धातोर्मन्प्रत्यय. स्यात् । प्रत्ययस्य टेर्लोपश्चेति तदर्थः । तथाच अव् म् इति स्थिते उपधाभूतस्य अकारस्य वकारस्य च ऊठि तस्य गुणे ओमिति दृश्यते । 'ज्वरत्वर' इत्यत्र अनुनासिकग्रहणाननुवृत्तौ तु मनिनि परे अवतेरूठ् न स्यात् । क्विझलोरेव तद्विधिलाभादिति भावः । ऊठि पितीति ॥ मवधातोर्यडलुक् । मामव् ति इति स्थिते ईडभावपक्षे अकारवकारयोरेकस्मिन् ऊठि तिप पित्त्वेन डित्त्वाभावादूकारस्य गुणे मामोतीति रूपमित्यर्थः । उपधायाः वकारस्य च प्रत्येकमूठ् इति पक्षे सवर्णदीर्घः । पक्षद्वयमपि 'एक पूर्वपरयोः' इत्यत्र भाष्ये स्पष्टम् । ईट्पक्षे आह । मामवीतीति ॥ अत्र ऊठ् न । क्वौ झलादौ अनुनासिकादौ च परे तद्विधानात् । मामूतः इति ॥ अकारवकारयोरूठि तसो डित्त्वान्न गुण इति भाव । मामवतीति ॥ 'अदभ्यस्तात्' इत्यत् । मामवीषीति सिद्धवत्कृत्य आह । मामोषीति ॥ झल्परकत्वादूठ् । मामूथः । मामूथ ।