पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६४
[यङ्लुक्
सिद्धान्तकौमुदीसहिता

'यकारवकारान्तानां तु ऊठ्भाविनां यङ्लुङ् नास्ति' इति 'च्छ्वोः-' (सू २५६१) इति सूत्रे भाष्ये ध्वनितं कैयटेन स्पष्टीकृतम् । इदं च 'च्छ्वोः--' (सू २५६१) इति यत्रोठ् तद्विषयकम् । 'ज्वरत्वर--' (सू २५६४) इत्यूठ्भाविनोः स्त्रिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यम् । माधवादिसम्मतं च । 'मव्य बन्धने' अयं यान्त ऊठ्भावी 'तेवृ देवृ देवने' इत्यादयो वान्ता: । 'हय गतौ' जाहयीति-जाहति । जाहतः । जाहयति । जाहयीषि-जाहसि ।


लडि तिपि ईटि अपाप्रच्छीत् । ईडभावेतु अपाप्रच्छ् त् इति स्थिते हल्ड्यादिना तलोपे छस्य षः तस्य जश्त्वचर्त्वे । अपाप्रट् । अपाप्रष्टाम् । अपाप्रच्छु . । अपाप्रच्छीः-अपाप्रट् । अपाप्रष्टम् । अपाप्रष्ट । अपाप्रच्छम् । अपाप्रच्छ्व । अपाप्रश्म । लिडि पाप्रच्छ्यात । लुडि अपाप्रच्छीत् । 'अस्तिसिच' इति नित्यमीट् । अपाप्राच्छिष्यत् । ऊठ्भाविनामिति ॥ 'भू प्राप्तौ' चुरादिराधृषीय । तस्मात् 'आवश्यकाधमर्ण्ययोर्णिनि.' इति भविष्यदर्थे णिनिः । ऊठ प्राप्स्यतामित्यर्थः । ऊठ्विषयाणामिति यावत् । ध्वनितमिति ॥ सूचितमित्यर्थ । स्पष्टीकृतमिति ॥ तथाहि 'च्छ्वोः' इति सूत्रे डिग्रहणानुवृत्तौ काश्चित् दोषानुद्भाव्य परिहृत्य क्डिद्ग्रहणानुवृित्ति स्वीकृत्योक्त भाष्ये । एतावानेव विशेष । अनुवर्तमाने क्डिद्ग्रहणे छष्षत्व वक्तव्यमिति । अत्र कैयटः । प्रष्टा, पृष्टमित्यादौ 'च्छ्वो' इति छस्य शत्वे कृते तस्य 'व्रश्च' इति षत्वे ष्टुत्वमिति स्थितिः । तत्र क्डितीत्यनुवृत्तौ छस्य शत्वन्न स्यात् । अतः छस्य षत्व वक्तव्यमित्यर्थः । नच क्ङिद्ग्रहणानुवृत्तावत्र शत्वाभावेऽपि न दोषः । व्रश्चादिना छस्य षत्वे इष्टसिद्धेरिति वाच्यम् । 'च्छ्वो' इत्यत्र 'छस्य षत्व वक्तव्यम्' इत्यनेनैव प्रष्टेत्यादिसिद्धे व्रश्चादिसूत्रे छग्रहणन्न कर्तव्यमित्याशयात् । नच प्रडिति क्विबन्तात् सोर्लोपे षत्वार्थ व्रश्चादिसूत्रे छग्रहणमिति वाच्यम् । तत्रापि क्विब्निमित्तशादेशस्य दुर्निवारत्वात् । विचि तु प्रच्छधातोरनभिधानान्नास्ति । एवञ्चात्र भाष्ये 'ऊठ्भाविभ्यो यङ्लुङ्नास्ति' इत्युक्तप्रायम् । अन्यथा 'च्छ्वोः' इत्यत्र क्डिद्ग्रहणानुवृत्तौ दिवेर्यङ्लुकि तिबादौ ईडभावे लघूपधगुणे 'लोपो व्योः' इति वलोपे देदेति देदेषीत्याद्यूठः अभावे रूपम् । तदनुवृत्तौ तु वस्य ऊठि देद्योति देद्योषि, इत्यादि रूपमिति विशेषस्य सत्त्वादेतावानेवेत्येवकारो विरुध्येत । अतः ऊठ्भाविना यकारवकारान्तानां यङ्लुङ्नास्तीति विज्ञायते इत्यलम् । इदञ्चेति ॥ 'च्छ्वो.' इति सूत्रेण यत्र ऊठ् प्रवर्तते तद्विषयकमेव इदम् उक्त ज्ञापनमित्यर्थः । स्त्रिविमव्योस्त्विति ॥ 'स्त्रिवु गतिशोषणयोः, मव्य बन्धने' इत्यनयो. इत्यर्थः । न्याय्यमिति ॥ उक्तज्ञापनस्य 'च्छ्वोः' इति सूत्रस्थभाष्यमूलकत्वादिति भावः । ननु ज्ञापनस्य सामान्यापेक्षत्वङ्कुतो नाश्रीयते इत्यत आह । माधवादिसम्मतञ्चेति ॥ उक्तविशेषवत्त्वमिति शेष । ऊठ्भावीति ॥ अतो नास्य यङ्लुगिति भावः । वान्ताः इति ॥ ऊठ्भाविन इति शेषः । नैतेषामपि यङ्लुगिति भावः । ऊठ्भाविनामिति विशेषणस्य व्यावर्त्यमाह । हय गताविति ॥ अस्य यान्तत्वेऽपि ऊठ्विषयत्वाभावादस्त्येव यङ्लुगिति भावः । जाहतीति ॥ तिप ईडभावे 'लोपो व्योः'