पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३६१
बालमनोरमा ।

पूर्वत्रासिद्धे तन्निषेधात् । आरति-अरिय्रति । लिङि श्तिपा निर्देशात् 'गुणोऽर्ति-' (सू २३८०) इति गुणो न । रिङ् । रलोपः । दीर्घः । आरियात्--अरिय्रियात् । 'गृहू ग्रहणे' जर्गृहीति—जर्गर्ढि । जर्गृढः । जर्गृहति ।


रेफलोपे कर्तव्ये यणादेशसम्पन्नस्य रेफस्य 'अचः परस्मिन्' इति स्थानिवत्त्वात् ॠकारपरकत्वाद्रेफपरकत्वाभावात् कथं पूर्वरेफस्य लोप इत्यत आह । पूर्वत्रासिद्धे तन्निषेधादिति ॥ पूर्वत्रासिद्धीयकार्ये कर्तव्ये स्थानिवत्त्वनिषेधादित्यर्थः । आरतीति ॥ अर् र् अति इति स्थिते पूर्वरेफस्य लोपे सति 'ढ्रलोपे' इति दीर्घ । नच यणः स्थानिवत्त्वं शङ्क्यम् । दीर्घविधौ तन्निषेधादिति भावः । अरिय्रतीति ॥ द्वित्वे उरदत्त्वे हलादिशेषे रिकि रीकि च कृते परत्वादभ्यासस्य इयडि ततो यणि रिग्रीकोस्तुल्यमेव रूपमित्यर्थः । अरर्षि-अरियर्षि-अररीषि-अरियरीषि । अर्ॠथः-अरियृथ । अरर्मि-अरियर्मि-अररीमि-अरियरीमि । अर्ॠवः-अरियूव. । अरराञ्चकार-अरियराञ्चकार । अररिता-अरियरिता । अररिष्यति-आरियरिष्यति । अरर्तु-अरियर्तु-अररीतु—अरियरीतु—अर्ॠतात्-अरियृतात् । अर्ॠताम्—अरियृताम् । आरतु-अरिय्रतु । अर्ॠहि-अरियृहि । अरराणि-अरियराणि । अरराव-अरियराव । लडि आरः–आरियः–आररीत्–आरियरीत् । आर्ॠताम् – आरियृताम् । आररुः-आरियरुः । आर–आरिय.–आररीः–आरियरीः । आर्ॠतम्-आरियृतम् । आर्ॠत-आरियृत । आररम्-आरियरम् । आर्ॠव-आरियृव । विधिलिङि अर्ॠयात्-अरियृयात् । अर्ॠयाताम्-अरियृयाताम् । अर्ॠयुः-अरियृयुः । इत्यादि । आशीर्लिङि विशेषमाह। लिङि श्तिपेति ॥ रुकि अर् ॠ यात् इति स्थिते 'अर्ति' इति श्तिपा निर्देशात् 'गुणोऽर्ति' इति गुणो नेत्यर्थः । रिङिति ॥ ॠकारस्येति शेष. । तथाच अर् रि यात् इति स्थिते आह । दीर्घः इति ॥ 'रो रि' इति लोपे 'ढ्रलोपे' इति दीर्घ इत्यर्थः । तथाच परिनिष्ठितमाह । आरियादिति ॥ रिग्रीकोस्त्वाह । अरिय्रियादिति ॥ अरि ॠयात् अरी ॠ यात् इति स्थिते इवर्णस्य इयड् ॠकारस्य रिड् । 'लोपो व्योः' इति यलोपस्तु न । बहिरङ्गत्वेन रिडोऽसिद्धत्वात् । 'अच. परस्मिन्' इति स्थानिवत्त्वाच्च । 'न पदान्त' इति निषेधस्तु न शङ्क्यः । 'स्वरदीर्घयलोपेषु लोपरूपाजादेश एव न स्थानिवत्' इत्युक्तेरित्यलम् । लुडि आरारीत्-आरियारीत् । लृडि आररिष्यत्-आरियरिष्यत् । गृहू ग्रहणे इति ॥ ॠदुपधोऽयम् । यङ्लुकि द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासस्य रुग्रिग्रीक । तदाह । जर्गृहीतीत्यादि ॥ ईट्पक्षे 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति लघूपधगुणनिषेध । ईडभावे त्वाह । जर्गर्ढि इत्यादि ॥ जर्गृह् ति इति स्थितेलघूपधगुणे रपरत्वे ढत्वधत्वष्टुत्वढलोपाः । 'यणो मय.' इति शिष्टस्य ढस्य द्वित्वविकल्पः । एव जरिगर्ढि-जरीगर्ढि । जर्गृढः इति ॥ रुक् ढत्वधत्वष्टुत्वढलोपा. । डित्त्वान्न गुण. । एव जरिगृढ.-जरीगृढः । जर्गृहतीति ॥ ३ । 'अदभ्यस्तात्' इत्यत् । जर्गृहीषि-जरिगृहीषि-जरीगृहीषि । 'नाभ्यस्तस्याचि पिति' इति न लघूपधगुणः । जर्घर्क्षि-जरिघर्क्षि-जरीघर्क्षि । जर्गृढः-जरिगृढः-जरीगृढः । जर्गृढ-जरिगृढ-जरीगृढ । जर्गृहीमि-जरिगृहीमि-जरीगृहीमि । जर्गर्ह्मि-जरिगर्ह्मि-जरीगर्ह्मि । जर्गृह्वः--