पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६०
[यङ्लुक्
सिद्धान्तकौमुदीसहिता

अवरीवर्तीत् । चर्करीति-चर्कर्ति-चरिकर्ति-चरीकर्ति । चर्कृतः । चर्क्रति । चर्कराञ्चकार । चर्करिता । अचर्करीत्-अचर्कः । चर्कृयात् । आशिषि रिङ् । चर्क्रियात् । अचर्कारीत् । 'ऋतश्च' (सू २६५३) इति तपरत्वान्नेह । 'कॄ विक्षेपे' । चाकर्ति । तातर्ति । तातीर्तः । तातिरति । तातीर्हि । तातराणि । अतातरीत्--अतातः । अतातीर्ताम् । अतातरुः । अतातारीत् । अतातारिष्टामित्यादि । अर्तेर्यङ्लुकि द्वित्वेऽभ्यासस्योरदत्त्वं रपरत्वम् । 'हलादिः शेषः' (सू २१७९) रुक् । रिग्रीकोस्तु 'अभ्यासस्यासवर्णे' (सू २२९०) इति इयङ् । अरर्ति-अरियर्ति। अररीति-अरियरीति । अर्ऋतः-अरियृतः । झि अत् । यण् । रुको 'रो रि' (सू १७३) इति लोपः । न च तस्मिन्कर्तव्ये यणः स्थानिवत्त्वम् ।


चर्करीतीत्यादि ॥ चर्कृयादिति ॥ विधिलिङस्तिडस्सार्वधातुकत्वात् 'अकृत्सार्वधातुकयोः' इति दीर्घो न । आशिषीति ॥ आशीर्लिड आर्धधातुकत्वात् 'रिड् शयग्लिडक्षु' इति रिडिति भावः । लुकि अचर्कारीदिति ॥ सिचि वृद्धिः । ऋतश्च इति तपरत्वान्नेहेति ॥ रुग्रिग्रीक इति शेषः । चाकर्तीति ॥ ईडभावे रूपम् । नचाभ्यासह्रस्वत्वे 'रीगृत्वतः' इति रीक् शङ्क्यः । नित्यत्वादुरदत्त्वस्य प्राप्ते. । चाकीर्त । चाकिरति । इत्यादि । डित्त्वाद्गुणाभावे ॠत इत्त्वं रपरत्वम् । चाकरीति । चाकीर्तः । चाकिरति । चाकराञ्चकार । चाकरिता । चाकर्तु-चाकीर्तात् । चाकिरतु । चाकीर्हि । चाकराणि । लडि अचाकरीत्-अचाकः । अचाकीर्ताम् । अचाकरुः। विधावाशिषि च चाकीर्यात् । यासुटो डित्त्वान्न गुणः । इत्त्व 'हलि च' इति दीर्घ .। चाकीर्याताम्, चाकीर्यास्ताम्, इत्यादि । लुडि अचाकरीत्, अचाकरिष्टाम्, इत्यादि । एव 'तॄ प्लवनतरणयोः' इत्यस्यापि रूपाणि । अद्वैतदीपिकाया तु चोद्य नावतरीतर्तीति लेखकप्रमादः । चोद्यन्तु नावतातर्तीति पाठः प्रामाणिकः । अर्तेरिति ॥ 'सूचिसूत्रि' इत्यादना ॠधातोर्यड् । तस्य लुक् । व्यपदेशिवत्त्वेन ॠ इत्यस्य आदिभूतादच. परत्वात् द्वितीयैकाच्त्वाच्च द्वित्वम् । अभ्यासॠवर्णस्य अत्त्वे रपरत्वे अर् ॠ इति स्थिते हलादिशेषेण रेफस्य निवृत्तिः । अ ॠ इति स्थिते अभ्यासस्य रुक् । लटस्तिपि ईडभावे अर् ॠ ति इति स्थिते तिपि ॠकारस्य गुणे अकारे रपरे सति अरर्तीति रूपमित्यर्थ. । रिग्रीवकोस्त्विति ॥ यङ्लुकि द्वित्वे उरदत्त्वे हलादिशेषे अ ॠ इति स्थिते रिकि रीकि च कृते तिपि उत्तरखण्डस्य ॠकारस्य गुणे अकारे रपरे कृते अरि अर्तीति स्थिते अभ्यासे रेफादिवर्णस्य यणम्बाधित्वा 'अभ्यासस्यासवर्णे' इति इयडि अरियर्तीति रिग्रीकोस्तुल्य रूपमित्यर्थः । अथ लटस्तिपि ईट्पक्षे आह । अररीति-अरियरीतीति ॥ अर्ऋतः इति ॥ रुकि तसि रूपम् । डित्त्वान्न गुण. । अरियृतः इति ॥ द्वित्वे उरदत्त्वे हलादिशेषे अ ॠ तस् इति स्थिते रिकि रीकि च कृते इयडादेशे रूपम् । झि अदिति ॥ झि इत्यविभक्तिकनिर्देशः उदाहरणसूचनार्थः । 'अदभ्यस्तात्' इति झेः अदादेश इति यावत् । यणिति ॥ रुकि कृते अर् ॠ अति इति स्थिते ॠकारस्य यण् रेफ इत्यर्थः । तथाच अर् र् अतीति स्थिते आह । रुको रो रीति लोपः इति ॥ ननु